Stotrarnava /774
This page has not been fully proofread.
७२८
अनुबन्ध : I
येनानिलात्मजगतेन रथी चिराय
नानायुधैर्विहितसंयदसौ चचाल ।
लीनात्मशक्तिरथ बाणहतो भृशार्तो
दीनायतेऽपि [स्म ] करतोऽपि विसृष्टचापः ॥ ७६॥
त्वं गच्छ संयति मदीयशरैर्विभिन्न-
स्त्वङ्ग प्रविश्य विगतश्रम एप [व] लङ्काम् ।
त्वङ्गद्रथादिसहितः पुनरेहि जन्य-
रङ्गस्थलीमिति यतोऽभिहितो दशास्यः ॥ ७७ ॥
रक्षोऽधिपोऽनुजमथो निजमात्तनिद्र
संक्षोभचित्त उदबोधयदुत्थितोऽसौ ।
विक्षोभयन्नुरुबलेन कपीशसेनां
शिक्षोद्यतः कलशकर्ण उपाद्रवद्यम् ॥ ७८ ॥
गोत्रप्रमाणतनुरेष कपीन्द्र वाहि-
गात्रः प्रहृष्टहृदयः प्रविवेश लङ्काम् ।
नेत्रप्रियः पलभुजां तदुदीरितात्म-
स्तोत्रस्ततः कपिवरः क्रमशः प्रबुद्धः ॥ ७९ ॥
तेनानुजासमदशो रचितः सुरादि-
पानातिमत्त उररीकृतशूल एपः ।
नानास्त्रविज्जनवरेण विखण्डिताङ्गो
येनामरप्रियकरीं मृतिमाशु नीतः ॥ ८० ॥
जम्भारिजित्तदनु कोपवता स्वपित्रा
संभावितोऽपि यममोहयदव्जजास्त्रम् ।
स्तम्भावहं यदनुजप्रमुखान् प्रसह्य [ युज्य ]
डम्भावितः स्वपितृमानसमोदकारी ॥ ८१ ॥
वातात्मजाहृतमहौषधिपर्वतेन
वीतात्मचेतनयदीयकनिष्ठमुख्याः ।
याताश्च योऽपि गतपीडनतामसृक्प-
जेता विधिर्हि निखिलैर्दुरतिक्रमः स्यात् ॥ ८२ ॥
इन्द्रात्मजस्य तनयेन यदङ्घ्रिभाजा
तन्द्रालु भावरहितेन किलाङ्गदेन ।
चन्द्राननेन विलयं नरकान्तकोऽगात्
सन्द्राविताखिलकपिः समितौ बलेन ॥ ८३ ॥
अनुबन्ध : I
येनानिलात्मजगतेन रथी चिराय
नानायुधैर्विहितसंयदसौ चचाल ।
लीनात्मशक्तिरथ बाणहतो भृशार्तो
दीनायतेऽपि [स्म ] करतोऽपि विसृष्टचापः ॥ ७६॥
त्वं गच्छ संयति मदीयशरैर्विभिन्न-
स्त्वङ्ग प्रविश्य विगतश्रम एप [व] लङ्काम् ।
त्वङ्गद्रथादिसहितः पुनरेहि जन्य-
रङ्गस्थलीमिति यतोऽभिहितो दशास्यः ॥ ७७ ॥
रक्षोऽधिपोऽनुजमथो निजमात्तनिद्र
संक्षोभचित्त उदबोधयदुत्थितोऽसौ ।
विक्षोभयन्नुरुबलेन कपीशसेनां
शिक्षोद्यतः कलशकर्ण उपाद्रवद्यम् ॥ ७८ ॥
गोत्रप्रमाणतनुरेष कपीन्द्र वाहि-
गात्रः प्रहृष्टहृदयः प्रविवेश लङ्काम् ।
नेत्रप्रियः पलभुजां तदुदीरितात्म-
स्तोत्रस्ततः कपिवरः क्रमशः प्रबुद्धः ॥ ७९ ॥
तेनानुजासमदशो रचितः सुरादि-
पानातिमत्त उररीकृतशूल एपः ।
नानास्त्रविज्जनवरेण विखण्डिताङ्गो
येनामरप्रियकरीं मृतिमाशु नीतः ॥ ८० ॥
जम्भारिजित्तदनु कोपवता स्वपित्रा
संभावितोऽपि यममोहयदव्जजास्त्रम् ।
स्तम्भावहं यदनुजप्रमुखान् प्रसह्य [ युज्य ]
डम्भावितः स्वपितृमानसमोदकारी ॥ ८१ ॥
वातात्मजाहृतमहौषधिपर्वतेन
वीतात्मचेतनयदीयकनिष्ठमुख्याः ।
याताश्च योऽपि गतपीडनतामसृक्प-
जेता विधिर्हि निखिलैर्दुरतिक्रमः स्यात् ॥ ८२ ॥
इन्द्रात्मजस्य तनयेन यदङ्घ्रिभाजा
तन्द्रालु भावरहितेन किलाङ्गदेन ।
चन्द्राननेन विलयं नरकान्तकोऽगात्
सन्द्राविताखिलकपिः समितौ बलेन ॥ ८३ ॥