Stotrarnava /773
This page has not been fully proofread.
श्रीदशावतारस्तोत्रम्
युद्धाय रात्रिचरवानरधूर्वहाः सं-
नद्वा बभूवुरथ शत्रमहीधहस्ताः ।
जग्धाच केचिदपरे विह बाणवहि-
दुग्धाः परस्परमतीव जयोद्यतास्ते ॥ ६८ ॥
संत्रासयन् हरिकुलं भुजगात्रजालैः
सुत्रामजिद्यदनुजं यमपि प्रपीड्य ।
पित्रा प्रहृष्टमनसा बहुमानपूर्व
कुत्रारिरित्यभिहिते निहतं शशंस ॥ ६९ ॥
पातेन वेगत उदश्चितचण्डपक्ष-
पातेन पक्षिकुलभूमिभृता व्यभेदि ।
मा ते भयं त्विति तदा वदता स वैरि-
घातेन यत्तनुगतो भुजगात्रबन्धः ॥ ७० ॥
ताम्राननेन मरुतः कपिना सुतेन
साम्रादिपादपकरेण विधाय जन्यम् ।
धूम्राक्ष आशर उपेत्य यदङ्घ्रिदास्य-
साम्राज्यतुष्टहृदयेन विनाशमापत् ॥ ७१ ॥
पित्रा समेन बलतः कनकाङ्गदेन
वित्रासितारिनिवहेन सहाङ्गदेन ।
तत्रास युद्धमवलोकयतां सुभीमं
तत्राप नाशमरिजय्यपि वज्रदंष्ट्रः ७२ ॥
नीलेन सैन्यपतिराशरभूभृत: स-
सालेन तालमुखदारुभृता कृताजिः ।
कालेयरञ्जिततनुर्यदनीकजाल-
पालेन कालसदनं निहतः प्रपेदे ॥ ७३ ॥
सेनाभिरायुधवतीभिरतीव रक्तो
येनापि योद्धुमुपयाति दशाननः स्म ।
दानाभिवर्षिगजवाहरथैः समेतो
नानाविधैर्नगरतो गिरिमूर्ध्नि भातः ॥ ७४ ॥
कृत्वा रणं हनुमता समतीत्य किञ्चित्
गत्वा कपीश्वरमुखैरपि यत्कनिष्ठम् ।
हत्वायुधेन तमसौ न शशाक हर्तुं
हृत्वा गतोऽनिलसुतः प्रहरद्दशास्यम् ॥ ७५ ॥
७२७
युद्धाय रात्रिचरवानरधूर्वहाः सं-
नद्वा बभूवुरथ शत्रमहीधहस्ताः ।
जग्धाच केचिदपरे विह बाणवहि-
दुग्धाः परस्परमतीव जयोद्यतास्ते ॥ ६८ ॥
संत्रासयन् हरिकुलं भुजगात्रजालैः
सुत्रामजिद्यदनुजं यमपि प्रपीड्य ।
पित्रा प्रहृष्टमनसा बहुमानपूर्व
कुत्रारिरित्यभिहिते निहतं शशंस ॥ ६९ ॥
पातेन वेगत उदश्चितचण्डपक्ष-
पातेन पक्षिकुलभूमिभृता व्यभेदि ।
मा ते भयं त्विति तदा वदता स वैरि-
घातेन यत्तनुगतो भुजगात्रबन्धः ॥ ७० ॥
ताम्राननेन मरुतः कपिना सुतेन
साम्रादिपादपकरेण विधाय जन्यम् ।
धूम्राक्ष आशर उपेत्य यदङ्घ्रिदास्य-
साम्राज्यतुष्टहृदयेन विनाशमापत् ॥ ७१ ॥
पित्रा समेन बलतः कनकाङ्गदेन
वित्रासितारिनिवहेन सहाङ्गदेन ।
तत्रास युद्धमवलोकयतां सुभीमं
तत्राप नाशमरिजय्यपि वज्रदंष्ट्रः ७२ ॥
नीलेन सैन्यपतिराशरभूभृत: स-
सालेन तालमुखदारुभृता कृताजिः ।
कालेयरञ्जिततनुर्यदनीकजाल-
पालेन कालसदनं निहतः प्रपेदे ॥ ७३ ॥
सेनाभिरायुधवतीभिरतीव रक्तो
येनापि योद्धुमुपयाति दशाननः स्म ।
दानाभिवर्षिगजवाहरथैः समेतो
नानाविधैर्नगरतो गिरिमूर्ध्नि भातः ॥ ७४ ॥
कृत्वा रणं हनुमता समतीत्य किञ्चित्
गत्वा कपीश्वरमुखैरपि यत्कनिष्ठम् ।
हत्वायुधेन तमसौ न शशाक हर्तुं
हृत्वा गतोऽनिलसुतः प्रहरद्दशास्यम् ॥ ७५ ॥
७२७