Stotrarnava /772
This page has not been fully proofread.
७२६
अनुगन्ध: I
नानाविधाः कथयतः कपिराजमुख्यान्
सेनापतीन् निशिचरा[भयवर्ज]नोक्ती: ।
येनाभयं विदधता विदितस्वशक्तीन्
दीनावनैकनिरतेन तदा । ॥ ६० ॥
वाराकरं शरणमाश्रितवान् प्रमत्ते
घोरान् शरानपि धनुः प्रगृ[परिगृह्य पाणौ ] ।
धाराधरप्रतिम एप ववर्ष तस्मिन
नीराजितो मणिगणैरमुना प्रदिष्ठैः ॥ ६१ ॥
चापेऽर्पितस्य किल यस्य विधेः शरस्य
कोपेन कम्पिततनुर्जडराशिरेषः ।
तापेन च स्वतटवासवतः शरव्यं
पापेष्वपश्चिमतरानसुरानकार्षीत् ॥ ६२ ॥
सेतुं कपीश्वरहृतैर्गिरिभिः समुद्रे
हेतुं वि[देहतनया] वदनोत्सवस्य ।
पातुं जनानघवतोऽपि च यो बबन्ध
यातुं निशाचरमहीश्वरराजधानीम् ॥ ६३ ॥
लीला परैर्निशिचराधिपराजधानी -
सालावलोकन कुतूहलिभिः कपीन्द्रैः ।
कोलाहलं च विदधद्भिरमाकरोत् सु-
वेलाधिरोहणमुदारयशोधनो यः ॥ ६४ ॥
तुङ्गं निशाचरवरोऽप्यधिरुह्य सौध-
शृङ्गं व्यलोकयदसौ कपिवर्यसेनाः ।
रङ्गं श्रियः पलभुजां कपिराट् किरीट-
भङ्गं चकार किल तस्य यदङ्घ्रिभक्त्या ॥ ६५ ॥
सेना सरा [क्षसमहीभृ] दियं कपीनां
येनात्तचापशरपाणितलेन गुप्ता ।
नानानिशाचरवृतां नगरीं दशास्य-
सेनां समावृणुत देवगणैरधृष्या ॥ ६६ ॥
रुद्धे निशाचरपुरे क्वचन प्रदेशे
दग्धे यदीयपृतनाभिरथान्यतोऽपि ।
मुग्धे पलाशनजने कचिदप्यभीक्ष्णं
क्रुद्धे च पङ्क्तिवदने परपीडनेन ॥ ६७ ॥
अनुगन्ध: I
नानाविधाः कथयतः कपिराजमुख्यान्
सेनापतीन् निशिचरा[भयवर्ज]नोक्ती: ।
येनाभयं विदधता विदितस्वशक्तीन्
दीनावनैकनिरतेन तदा । ॥ ६० ॥
वाराकरं शरणमाश्रितवान् प्रमत्ते
घोरान् शरानपि धनुः प्रगृ[परिगृह्य पाणौ ] ।
धाराधरप्रतिम एप ववर्ष तस्मिन
नीराजितो मणिगणैरमुना प्रदिष्ठैः ॥ ६१ ॥
चापेऽर्पितस्य किल यस्य विधेः शरस्य
कोपेन कम्पिततनुर्जडराशिरेषः ।
तापेन च स्वतटवासवतः शरव्यं
पापेष्वपश्चिमतरानसुरानकार्षीत् ॥ ६२ ॥
सेतुं कपीश्वरहृतैर्गिरिभिः समुद्रे
हेतुं वि[देहतनया] वदनोत्सवस्य ।
पातुं जनानघवतोऽपि च यो बबन्ध
यातुं निशाचरमहीश्वरराजधानीम् ॥ ६३ ॥
लीला परैर्निशिचराधिपराजधानी -
सालावलोकन कुतूहलिभिः कपीन्द्रैः ।
कोलाहलं च विदधद्भिरमाकरोत् सु-
वेलाधिरोहणमुदारयशोधनो यः ॥ ६४ ॥
तुङ्गं निशाचरवरोऽप्यधिरुह्य सौध-
शृङ्गं व्यलोकयदसौ कपिवर्यसेनाः ।
रङ्गं श्रियः पलभुजां कपिराट् किरीट-
भङ्गं चकार किल तस्य यदङ्घ्रिभक्त्या ॥ ६५ ॥
सेना सरा [क्षसमहीभृ] दियं कपीनां
येनात्तचापशरपाणितलेन गुप्ता ।
नानानिशाचरवृतां नगरीं दशास्य-
सेनां समावृणुत देवगणैरधृष्या ॥ ६६ ॥
रुद्धे निशाचरपुरे क्वचन प्रदेशे
दग्धे यदीयपृतनाभिरथान्यतोऽपि ।
मुग्धे पलाशनजने कचिदप्यभीक्ष्णं
क्रुद्धे च पङ्क्तिवदने परपीडनेन ॥ ६७ ॥