Proofing

2026-04-03 16:54:26 by ambuda-bot

This page has not been fully proofread.

श्रीदशावतारस्तोत्रम्
 
दूतस्य यस्य वसनावृतवालवह्नि-
 
तस्य कर्षणमितस्तत आशरैस्तैः ।
 
ख्यातस्य राक्षसपुरीमपि निर्ददाह
 
शीतत्वमाप मिथिलेशसुताप्रसादात् ॥ ५२ ॥
 
भूयोऽपि मैथिलतां विनमन्महीध्र-
 
कायो जलाकर ममेयकमुत्ततार ।
 
प्रायोपवेश [गत ] वानरतुष्टिकारी
 
वायोरयं प्रियसुतोऽनुचरो यदीयः ॥ ५३ ॥
 
अभ्यासितं दृढबलैः कपिभिर्मरन्द-
 
वृद्धथास्पदं यदनुचार्यनुमत्युपेतैः ।
 
यावत्स्वतृप्ति मकरन्दवनं प्रभग्नं
 
वध्या भवन्ति हि यतस्त्वितरे प्रविष्टाः ॥ ५४ ॥
 
पुत्रोऽनुजेन मरुतः सहितस्य यस्य
 
शत्रोरशोक गहने सह राक्षसीभिः ।
तत्रो [पवासनिरता ] मवदत् स्वदृष्टां
मित्रोत्रचारविधुरे मधुरद्रुमान्ये ॥ ५५ ॥
श्रुत्वा वचो हनुमतोऽनवधिप्रमोदः
कृत्वा तमात्मतनुसङ्गतिधन्यमेनम् ।
 
गत्वाथ सागरतटं सह वानरेन्द्रैः
 
उक्त्वाप्रमेय इति तं व्यथितो भृशं यः ॥ ५६ ॥
 
यद्भामिनीपरिसमर्पणयुक्तिजालं
 
सद्भाववान् प्रतिवदन् स विभीषणोऽर्थ्यम् ।
 
उद्भानुभूषरुचिरं रजनीचरेशं
 
तद्भावुकेतरवचोविमना बभूव ॥ ५७ ॥
 
दारान् विहाय धनमित्रसुतांच लङ्कां
 
धीराग्रणीर [घविमोच] नमाश्रितानाम् ।
 
कारागृहात् सनिगलादिव मुक्त एष
 
वाराकरोत्तरतटे शरणं गतोऽस्मि ॥ ५८ ॥
 
अङ्गीकृतं प्रति कपीन् स विशङ्कमानां-
 
स्तुङ्गीभवद्यदरु [णांबुज ] पादभक्तीन् ।
 
भृङ्गीतनुं यमिति यत्पदपद्मयुग्म-
 
सङ्गी निवेदयत मामुपयातमूचे (?) ॥ ५९ ॥
 
७२५