Stotrarnava /770
This page has not been fully proofread.
७२४
अनुबन्धः I
कोपेन यातुनृपतिर्हि यदीयदूतं
भूपेडिताङ्घ्रिरहिनोत् स्वभटाननेकान् ।
कापेयचञ्चलमिहानयतेति रम्य-
धूपे जनाश्रयवरे महिते निषण्णः ॥ ४४ ॥
एतेन किङ्करवरा निहता यदीय-
दूतेन तोरणगतेन चमूमहीशाः ।
घातेन पञ्च जवतोऽपि च मन्त्रिपुत्राः
जातेन यातुनृपतेः सहसाक्षनाम्ना ॥ ४५ ॥
शक्रारिणा कमलजास्त्रवरेण बद्धो
विक्रान्तिमान्निशिचरेशगृहं यदीयः ।
आक्रामदेतदवलोकनवाञ्छया यं
वक्राशरारचितलीलमनेककक्ष्यम् ॥ ४६ ॥
तत्रावनीश्वरमशेषनिशाचराणां
वृत्रारिमुख्यदिविषद्गणभीतिहेतुम् ।
अत्रासमद्भुतशिरोभुजमास दृष्ट्वा
पुत्रादिजुष्टमपि विस्मितहृद्यदीयः ॥ ४७ ॥
गर्वाकरं विधिवर्जितमिद्धदीप्तिं
शर्वाचलोद्धरणसम्भवद्ग्रथ कीर्तिम् ।
सर्वामरद्विषमनेकनरेन्द्रयज्ञ-
निर्वापणैकनिरतं परदारसक्तम् ॥ ४८ ॥
स्वर्वारसुन्दरिकरैरभिवीज्यमानं
पर्वाखरांशुघृणिजित्वरचामराल्या ।
निर्वाहकं निखिलनैर्ऋतसन्ततीनां
दुर्वा[संप] दुदधिं सुरहं समेघम् ॥ ४९ ॥
यस्याभियातुपति दूतवरो निषण्णः
स्वस्यागमस्य परिबोध्य निदानमत्र ।
अस्यानुकूलमभिधाय च दुष्टवृत्तेः
तस्या[शरस्य ]विषयोऽप्यपगोरणस्य ॥ ५० ॥
अस्यानुजः परदयो नु विभीषणोऽपि
यस्यानुचारिणमिमं न वधाईमाह ।
तस्याभवद्धितमदो वचनं [तदानीं ]
[ रीतिर्हि ] दूत इति शास्त्रगिरामवध्यः ॥ ५१ ॥
अनुबन्धः I
कोपेन यातुनृपतिर्हि यदीयदूतं
भूपेडिताङ्घ्रिरहिनोत् स्वभटाननेकान् ।
कापेयचञ्चलमिहानयतेति रम्य-
धूपे जनाश्रयवरे महिते निषण्णः ॥ ४४ ॥
एतेन किङ्करवरा निहता यदीय-
दूतेन तोरणगतेन चमूमहीशाः ।
घातेन पञ्च जवतोऽपि च मन्त्रिपुत्राः
जातेन यातुनृपतेः सहसाक्षनाम्ना ॥ ४५ ॥
शक्रारिणा कमलजास्त्रवरेण बद्धो
विक्रान्तिमान्निशिचरेशगृहं यदीयः ।
आक्रामदेतदवलोकनवाञ्छया यं
वक्राशरारचितलीलमनेककक्ष्यम् ॥ ४६ ॥
तत्रावनीश्वरमशेषनिशाचराणां
वृत्रारिमुख्यदिविषद्गणभीतिहेतुम् ।
अत्रासमद्भुतशिरोभुजमास दृष्ट्वा
पुत्रादिजुष्टमपि विस्मितहृद्यदीयः ॥ ४७ ॥
गर्वाकरं विधिवर्जितमिद्धदीप्तिं
शर्वाचलोद्धरणसम्भवद्ग्रथ कीर्तिम् ।
सर्वामरद्विषमनेकनरेन्द्रयज्ञ-
निर्वापणैकनिरतं परदारसक्तम् ॥ ४८ ॥
स्वर्वारसुन्दरिकरैरभिवीज्यमानं
पर्वाखरांशुघृणिजित्वरचामराल्या ।
निर्वाहकं निखिलनैर्ऋतसन्ततीनां
दुर्वा[संप] दुदधिं सुरहं समेघम् ॥ ४९ ॥
यस्याभियातुपति दूतवरो निषण्णः
स्वस्यागमस्य परिबोध्य निदानमत्र ।
अस्यानुकूलमभिधाय च दुष्टवृत्तेः
तस्या[शरस्य ]विषयोऽप्यपगोरणस्य ॥ ५० ॥
अस्यानुजः परदयो नु विभीषणोऽपि
यस्यानुचारिणमिमं न वधाईमाह ।
तस्याभवद्धितमदो वचनं [तदानीं ]
[ रीतिर्हि ] दूत इति शास्त्रगिरामवध्यः ॥ ५१ ॥