Stotrarnava /769
This page has not been fully proofread.
श्रीदशावतारस्तोत्रम्
भर्तारमेव सततं हृदि चिन्तयन्ती
हर्तारमुप्रखर मुख्यनिशाचराणाम् ।
कर्तारमार्यमुनिमुख्यकुलाभिवृद्धेः
स्मर्तारमप्यनुकलं निजविग्रहस्य ॥ ३६ ॥
प्रज्ञाघनेन हरिणा मरुदुद्भवेन
विज्ञापिता दशरथेोदयमुख्यवृत्तम् ।
अज्ञान सञ्चयहरेण यदीयपत्नी
विज्ञानिवर्गमहितेन पटुत्वभाजा ॥ ३७ ॥
वातात्मजस्य वचनेन सुधासमेन
जाता सविश्वसनहृत् कमला हि यस्य ।
सीता प्रवृत्तिमुपलभ्य च सप्रकारां
याता प्रमोदमतुलं प्रमदोत्तमाभूत् ॥ ३८ ॥
मोदावहं जनकभूमिपतेः सुतायै
खेदापहं च मणिशोभि यदङ्गुलीयम् ।
प्रादादमेयमहिमा मरुदात्मजोऽस्यै
पादारविन्दयुगलं प्रणनाम यस्याः ॥ ३९ ।
तेनातिशायिमुदमावहता पुमर्थ -
दानानुरागिण यदीयकरे स्थितेन ।
लीनाखिला सुखचया मिथिलेशपुत्री
येनाभवद्गुणवता सहितेव हृष्टा ॥ ४० ॥
कृत्वा बलप्रकटनं यदि मां नयेत्तं
हृत्वा निशाचरपतिं सदृशं तद्स्य ।
उक्त्वा मरुज्जम हिनोदिति यं प्रकृत्य
नत्वा पदाब्जयुगलं शिरसा च यस्य ॥। ४१ ॥
भूषा निशाचरमहीशपुरस्य रम्य-
वेषाभिरस्य निबिडा सततं प्रियाभिः ।
शेषावनीज निनिवासतरुर्यदीय-
शेषादशोकवनिकाप हरेर्विभङ्गम् ॥ ४२ ॥
त्रस्ता वनस्थित निशाचरनाथदास्यः
शस्तात्मविक्रमममुं किल यस्य दूतम् ।
मस्तार्पिताञ्जलय ऊचुरमुष्य शीघ्र-
मस्तालया अवनिजावनजागरूकाः ॥ ४३ ॥
७२३
भर्तारमेव सततं हृदि चिन्तयन्ती
हर्तारमुप्रखर मुख्यनिशाचराणाम् ।
कर्तारमार्यमुनिमुख्यकुलाभिवृद्धेः
स्मर्तारमप्यनुकलं निजविग्रहस्य ॥ ३६ ॥
प्रज्ञाघनेन हरिणा मरुदुद्भवेन
विज्ञापिता दशरथेोदयमुख्यवृत्तम् ।
अज्ञान सञ्चयहरेण यदीयपत्नी
विज्ञानिवर्गमहितेन पटुत्वभाजा ॥ ३७ ॥
वातात्मजस्य वचनेन सुधासमेन
जाता सविश्वसनहृत् कमला हि यस्य ।
सीता प्रवृत्तिमुपलभ्य च सप्रकारां
याता प्रमोदमतुलं प्रमदोत्तमाभूत् ॥ ३८ ॥
मोदावहं जनकभूमिपतेः सुतायै
खेदापहं च मणिशोभि यदङ्गुलीयम् ।
प्रादादमेयमहिमा मरुदात्मजोऽस्यै
पादारविन्दयुगलं प्रणनाम यस्याः ॥ ३९ ।
तेनातिशायिमुदमावहता पुमर्थ -
दानानुरागिण यदीयकरे स्थितेन ।
लीनाखिला सुखचया मिथिलेशपुत्री
येनाभवद्गुणवता सहितेव हृष्टा ॥ ४० ॥
कृत्वा बलप्रकटनं यदि मां नयेत्तं
हृत्वा निशाचरपतिं सदृशं तद्स्य ।
उक्त्वा मरुज्जम हिनोदिति यं प्रकृत्य
नत्वा पदाब्जयुगलं शिरसा च यस्य ॥। ४१ ॥
भूषा निशाचरमहीशपुरस्य रम्य-
वेषाभिरस्य निबिडा सततं प्रियाभिः ।
शेषावनीज निनिवासतरुर्यदीय-
शेषादशोकवनिकाप हरेर्विभङ्गम् ॥ ४२ ॥
त्रस्ता वनस्थित निशाचरनाथदास्यः
शस्तात्मविक्रमममुं किल यस्य दूतम् ।
मस्तार्पिताञ्जलय ऊचुरमुष्य शीघ्र-
मस्तालया अवनिजावनजागरूकाः ॥ ४३ ॥
७२३