Proofing

2026-04-03 16:54:25 by ambuda-bot

This page has not been fully proofread.

७२२
 
अनुबन्धः I
 
पाशायुधाहिरिपुकालधनाधिपाना-
 
माशासु वानरवरानहिनोत् कपीन्द्रः ।
साशाभरस्य पृथिवीदुहितर्यशेष-
 
देशावलोकनपटून् प्रमुदे च यस्य ॥ २८ ॥
 
कान्तारभूमिषु विचित्य सुतोऽञ्जनायाः
शान्ताकृतिः सह च वालिसुतेन यस्य ।
कान्तामचिन्त्य महिमामुपलभ्यदुःख-
ध्वान्ताभिभूतहृदवाप समुद्रतीरम् ॥ २९ ॥
 
वाराकरावृतमहीध्रगतान् यदीय-
 
दारानवेत्य हनुमानथ गृध्रवाचा ।
वीरायितेन तुलया रहितो बभूव
 
धीरामणीस्तदवलोकनजातवाञ्छः ॥ ३० ॥
 
शैले यदङ्गुलिविभूषणभृन्महेन्द्रे
 
शैलेयगन्धभरितेऽभिललाष तिष्ठन् ।
शैलेशतुल्यविभवे तरणं पयोधेः
 
शैलेशसन्निभतनुर्मरुतः कुमारः ॥ ३१ ॥
 
स्थित्वा समीरतनयः पृथिवीधरेऽस्मिन्
 
नत्वा सलक्ष्मणकपिप्रवराय यस्मै ( कपीशमहीसुतं यम्) ।
 
कृत्वा पयोधितरणेऽभिहरि प्रतिज्ञां
 
हित्वा जवेन तमसौ गिरिमुत्पपात ॥ ३२ ॥
 
मीना दिसत्त्वनिविडोदधिजृम्भमाणं
 
मैनाकमश्रमतया समतीत्य दूतः ।
 
वीनामधीशमपि यस्य जयञ्जवेन
 
नानामहीधगणमाशु तमुत्ततार ॥ ३३ ॥
 
सन्ताडनेन रजनीचरनाथपुर्याः
 
सन्तापमुद्रमुपपाद्य सुतोऽञ्जनायाः ।
हन्तास्य वेश्मनि विचित्य यदीयपत्नीं
दन्ता लिनिर्जितविधुं तददर्शनार्तः ॥ ३४ ॥
 
हृद्ये निशाचरकुलाधिपतेरपास्ता-
 
व त्वशोकविपिने महिषी यदीया ।
यद्येन भङ्गमुपयास्यति तेन नुन्ना-
 
विद्येन वायुजनुषा ददृशे स्वभाग्यात् ॥ ३५ ॥