Proofing

2026-04-03 16:54:25 by ambuda-bot

This page has not been fully proofread.

श्रीदशावतारस्तोत्रम्
 
राज्येऽभिषिच्य सुहृदं कपिभूमिपालं
पूज्येऽथ वर्षसमयं गमयांवभूव ।
प्राज्ये च माल्यवति योगिगणैर्मृगाणां
 
राज्ये भमुख्यवति सन्ततकन्दरे यः ॥ २० ॥
विद्योतमानमचिरप्रभयाभ्रवृन्दं
प्रद्योतनांशुपटलस्य तिरोधि हेतुः ।
 
सद्यो मनोविकृतिमावहति स्म दारैः
 
नद्योऽपि वारिनिधिगा रहितस्य यस्य ॥ २१ ॥
 
केकरवाश्च शिखिनां गिरिनिर्झराम्भ-
स्सेकामलायतशिलातलनृत्तभाजाम् ।
मूकासितेतरपतत्तविश्रासनार्थाः
 
शोकाग्निदीपनकराः स्म भवन्ति यस्य ॥ २२ ॥
 
काले पयोधरकदम्बवति त्रियामा-
 
नीले तिरोहिततुषारघृणिप्रचारे ।
 
शैले मनोज निरुजा वसतो जजृम्भे
 
वेलेव यस्य हृदये जलधेर्हिमांशोः ॥ २३॥
 
तापेन मैथिलसुताविरहोद्भवेन
 
स्वापेति [sपि ] येन सहजः प्रहितो यु[Sमि ] तेन ।
कोपेन वानरपतेर्नगरीं सगन्धां
 
धूपेन सागरुपटीरभवेन भेजे ॥ २४ ॥
 
धीराभियातरजनीचर भीतिकारि-
 
वीरायितस्य वरचापगुणारवेण ।
वाराकरध्वनिजितावरजस्य यस्य
तारापतिर्भृशमभूदुपजातकम्पः ॥ २५ ॥
 
आगादधीरमनसा प्रहिता धवेन
 
वेगादोपजननादनुजस्य यस्य ।
सा गाढविह्वलदृशा सविधं मदेन
 
नागाभिरामगमना कपिराजपत्नी ॥ २६ ॥
 
नानाकृतीः कपिमुखाः स्ववचोनियाम्याः
सेना अशेषगिरिकानननित्यवासाः ।
आनाययत् प्रशमयन्नतिवेलको प
 
दीनावने कपिपतिर्निरतस्य यस्य ॥ २७ ॥
 
46
 
७२१