Proofing

2026-04-03 16:54:24 by ambuda-bot

This page has not been fully proofread.

॥ अनुबन्धः ॥
 
I
 
॥ श्रीविष्णुस्तोत्रेषु १६७ पुढे मुद्रिते श्रीदशावतारस्तोत्रनाम के
 
तृतीयस्तोत्रे अवशिष्टाः श्लोकाः ॥
 
यो भार्गवः स्वपितृसंहरणोत्थकोपः
 
शोभास्पद द्विशतपञ्चशकबाहु पङ्क्तिम् ।
स्वाभाविकार्घ्यपरशुर्नृपमर्जुनाख्यं
 
धीभादिसद् गुणनिधिर्हतवान् स पातु ॥ ६ ॥
भूमावभूत् सुरगणैर्दिनराजवंशे
योऽमानन[1]न्तगुणराशिभिरर्थ्यमानः ।
 
धीमान् हि गाधिजमखावनकृत् समूढ-
हेमा मैथिलसुतः स रघूहोऽव्यात् ॥ ७ ॥
जित्वाभियातमपि यो हृतराजलोकं
 
गत्वा मुनिं भृगुसुतं नगरीमयोध्याम ।
भुक्त्वा विदेहसुतया विविध भन्
सत्त्वाश्रयो जनमनांसि गुणैर्ममन्थ ॥ ८ ॥
 
पुत्रार्जवा सहित मध्यममातृवाक्यात्
वृत्रारिमुख्यदिविपद्गण सेव्यमानः ।
छत्रावृतानननृपत्वदशां विधूय
 
पित्राटवीमभिययावपि यो नियुक्तः ॥ ९ ॥
 
हत्वा विराधमृषिपर्णकुटी: क्रमेण
 
गत्वा फलानि विविधानि च तत्र तत्र ।
 
भुक्त्वा घटोद्भवकृतानुमतिस्ततो यः
 
कृत्वा च पञ्चवटिकामवसन्निवासम् ॥ १० ॥
 
वालप्रियैश्च चमरैर्हरिणैस्तरक्षु-
 
कोलैः प्रचारवति वानरवारणाढ्ये ।
सालद्रुतालसुतमालतरुप्रकाण्ड-
 
नीलप्रभाजुषि समावसदाश्रमे यः ॥ ११ ॥