Stotrarnava /764
This page has not been fully proofread.
७१८
श्रीमङ्गलाष्टकम्
विश्वामित्रो वसिष्ठः कलशभव उचभ्योऽङ्गिराः काश्यपश्च
व्यासः कण्वो मरीचिः क्रतुभृगुपुलहो गौतमोऽत्रिः पुलस्त्यः ।
अन्ये सर्वे मुनीन्द्राः कुजबुधगुरुशुक्रार्कजाद्या ग्रहा ये
नक्षत्राणि प्रदेशाः फणिगणमनवो मङ्गलं मे दिशन्तु ॥ ४ ॥
तार्क्ष्योऽनन्तो हनूमान् वलिरपि सनकाद्याः शुको नारदश्च
प्रह्लादः पाण्डुपुत्रो नृगनलनहुपा विष्णुरातोऽम्बरीषः ।
भीष्मोऽक्रूरोद्धवोशीनरभरतहरिश्चन्द्ररुक्माङ्गदाद्याः
अन्ये सर्वे नरेन्द्राः रविशशिकुलजाः मङ्गलं मे दिशन्तु ॥ ५ ॥
आकूत्याद्याश्च तिस्रः सकलमुनिकलत्राणि द्वारा मनूनां
सीता कुन्ती च पाञ्चाल्यथ नलदयिता रुक्मिणी सत्यभामा ।
देवक्याद्याश्च सर्वा यदुकुलवनिता राजभार्यास्तथान्याः
गोप्यश्चारित्रयुक्ताः सकलयुवतयो मङ्गलं मे दिशन्तु ॥ ६ ॥
विप्रा गावश्च वेदाः स्मृतिरपि तुलसी पुण्यतीर्थानि विद्या
नानाशास्त्रेतिहासान्यपि सकलपुराणानि वर्णाश्रमाश्च ।
सांख्यज्ञानञ्च योगा अपि यमनियमौ सर्वकर्माणि कालाः
सर्वे धर्माश्च सत्याद्यवयवसहिता मङ्गलं मे दिशन्तु ॥ ७ ॥
लोका जीवाः समुद्राः क्षितिधरपतयो मेरुकैलासमुख्याः
कावेरीनर्मदाद्याः शुभजलसहिताः स्वर्तुमा दिग्गजेन्द्राः ।
मेघा ज्योतींषि नानानरपशुमृगपक्ष्यादयः प्राणिनोऽन्ये
सर्वोपभ्यश्च वृक्षाः सकलतृणलता मङ्गलं मे दिशन्तु ॥ ८ ॥
भक्त्या संयुक्तचित्ताः प्रतिदिवस मिमान्मङ्गलस्तोत्रमुख्या -
नष्टौ श्लोकान् प्रभाते दिवसपरिणतौ ये च मर्त्याः पठन्ति ।
ते नित्यं पूर्णकामा इह भुवि सुखिनश्चार्थवन्तोऽपि भूत्वा
निर्मुक्ताः सर्वपापैर्वयसि च चरमे विष्णुलोकं प्रयान्ति ॥ ९ ॥
॥ इति श्रीमङ्गलाष्टकं सम्पूर्णम् ॥
॥ इति स्तोत्रार्णवः सम्पूर्णः ॥