Proofing

2026-04-03 16:54:24 by ambuda-bot

This page has not been fully proofread.

श्रीचेल्लूरपुरीशस्तवः
 
जय जय पोर्कलिमातरुमे तरुणारुणकोटिविमानरुचे
जगद्भयङ्करि शङ्करभामिनि किङ्करितामरि तुङ्गकुचे ।
भवभयकंपिनि सुंभनिसुंभनिसुंभनसंभृतचण्डतनो
 
७१७
 
त्रिभुवन पालिनि घोरकपालिनि शूलिनि खेलिनि पालय माम् ॥ ४५ ॥
समधिक दुर्मदमेदुरदारुकदानवदारुविदारविधा-
 
चटुलकठोर कुठारकृपाणतरालित पाटलपाणितलाम् ।
 
प्रणमत पोर्कलिमातरमातुरचातकजातपयोदघटां
 
धवलसटाकुलभासुर के सरिकण्ठगतामविकुण्ठकृपाम् ॥ ४६ ॥
दिनमुखजृंभभृदंबुजसंभृतदंभसमृद्ध्युदरंभरिदृग-
वलननिगुम्भितशंबरशासनतन्त्र नियन्त्रितशङ्करया ।
निलयितमस्तु मनस्तु कयाचन हस्तिपनिस्तुलमस्तजयि-
 
स्तन (वि) [युग ] भुग्नविलग्नवलत्त्रिवलीलवली कुलया कलया ॥ ४७ ॥
परिचरणाचरणोचितखेचरराजपुरीचरचन्द्रमुखी-
 
करकलचालितचामरको रकम रुपोतकधूक
 

 
सपदि विजृम्भय संपदमम्ब भयं परिकम्पय किञ्च दृशा
क्षणमनुकम्पय शंभुकुटुम्बिनि तुङ्गनितम्बिनि कम्बुगले ॥ ४८ ॥
॥ इति श्री चेल्लूरपुरीशस्तवः सम्पूर्णः ॥
 
॥ अथ श्रीमङ्गलाष्टकम् ॥
 
ब्रह्मा विष्णुर्गिरीशः सुरपतिरनलः प्रेतराड्यातुनाथः
तोयाधीशच वायुर्धनदगुहगणेशार्कचन्द्राश्च रुद्राः ।
विश्वादित्याश्वि साध्या वसुपितृमरुतः सिद्धविद्याप्रयक्षाः
गन्धर्वाः किन्नराश्चाखिलगगनचराः मङ्गलं मे दिशन्तु ॥ १ ॥
वाणी लक्ष्मीर्धरित्री हिमगिरितनया चण्डिका भद्रकाली
ब्राह्मयाद्या मातृसङ्घा अदितिदितिसतीत्यादयो दक्षपुत्र्यः ।
सावित्री जहुकन्या दिनकरतनयारुन्धती देवपत्न्यः
पौलोम्याद्यास्तथान्याः खचरयुवतयो मङ्गलं मे दिशन्तु ॥ २ ॥
मत्स्यः कूर्मो वराहो नृहरिरथ वटुर्भार्गवो रामचन्द्रः
सीरी कृष्णश्च कल्की स कपिलनरनारायणोऽत्रेयवैन्यः ।
अन्ये नानावतारा नरकविजयिनश्चक्रमुख्यायुधानि
 
तत्पत्न्यः तत्सुताश्चाप्यखिलहरिकला मङ्गलं मे दिशन्तु ॥ ३ ॥