Stotrarnava /762
This page has not been fully proofread.
७१६
देवीस्तोत्रेषु
भिन्तां हृन्मौढ्यमाद्व्यङ्करणमहिकुलग्रामणीदामनद्धं
मुग्धं मूर्धस्थलं ते कपिशरुचिजटामण्डनं कुण्डनाथ ।
युद्धक्रीडत्सुभद्रासहचरमहितारम्भ दोस्तम्भघूर्ण-
गाण्डीवोद्दण्डदण्डाहतिघटितकिणग्रन्थिलं चन्द्रमौले ॥ ३६ ॥
मज्जन्तो माटुकामा इव मदनवधूनव्यवैधव्यदाना-
दुद्भूतं पातकौघं मुकुटतटवियद्वाहिनीवारिपूरे ।
कुर्वाणा भूषणाहित्रजफणफलके दीप्रमाणिक्यशङ्कां
पिङ्गा नेत्रस्फुलिङ्गा झटिति पशुपते भस्मयन्त्वस्मदंहः ॥ ३७ ॥
पादाङ्गुष्ठं पुरारेर्भजत नवलतापल्लवायान्प्रदिष्ठं
क्रीडा स्पर्शेन यस्य प्रचयितशिखरन्यञ्चिते राजताद्रौ ।
अस्तव्यस्ताग्रकेशोत्तरलदशमुखीदारुणाक्रन्दभिन्न-
ब्रह्माण्डो भूमिपृष्ठोल्लुठितभुजवनः पङ्क्तिकण्ठो जिहिण्डे ॥ ३८ ॥
आबद्धभ्रुकुटीविभङ्गमजहत्कौर्याङ्कुरं किंकरं
भो भो श्राद्धपते वृथा मम कृते मा जित्वरं तत्वरः ।
पादाब्जं परिभाति चेतसि परक्रोडेशितु धूर्जटेः
पूर्वं येन भवद्भुजान्तर शिलाकुट्टाकटङ्कायितम् ॥ ३९ ॥
कण्ठे कफै: कबलिते करणे सकम्पे
नेत्रे निमीलति मरुत्यपि मन्दमन्दे ।
सद्यः कणत्कनकनूपुरचारु मातः
प्रत्यक्षमस्तु चरणं परिपाटलं ते ॥ ४० ॥
स्फुरन्ति मम चेतसि तिनिरस्तकलयो
हगञ्चलनियन्त्रितत्रिदशवाहिनीमौलयः ।
दुरन्तदुरिताचलप्रकरभेददं भोलयः
कुसुंभरुचिराधराः कुचभरानताः केलयः ॥ ४१ ॥
मकरन्दतुन्दिशरं मधुरिमधौरेय चारुकोदण्डम् ।
पाशसृणिपाणि किञ्चन पाशुपतं भाग्यमाविरस्तु पुरः ॥ ४२ ॥
करतलकलितेक्षुकार्मुकाणां
कमलकुलारिकलावतंसितानाम् ।
पशुपतितपसां पचेलिमानां
परिचयवानहमस्मि पाटलिम्नाम् ॥ ४३ ॥
कृत्तिधरहस्तलालित निस्तुलकुचविजितहस्तिमस्तरुचि ।
मुक्तिपुरे निस्तिमिरं मुग्धकुरङ्गाक्षमस्ति वस्तु परम् ॥ ४४ ॥