Proofing

2026-04-03 16:54:24 by ambuda-bot

This page has not been fully proofread.

श्री चेल्लूरपुरीशस्तवः
 
व्यत्यासाहित पादद्यापि वलितग्रीवाभिरामश्रिया
सत्यानन्दघनस्वरूपवपुषः स्थित्या जगन्मोहयन् ।
वंशाराव सुधारसैरपहरन् संसारतापं सतां
 
उत्तंसायितबर्ह भारसुभगः कंसारिरास्तां मुदे ॥ २८ ॥
 
चञ्चलीकरणमञ्जु कुञ्चितघनालकं व्रजनितम्बिनी-
चञ्चलीकरण केलिदुर्ललित वेणुमुद्रितमुखाम्बुजम् ।
पिञ्छभारतभूषणं मधुरभाषणं दुरितमोपणं
वञ्चनाकलितगोपवेषमुररीकरोमि परपूरूपम् ॥ २९ ॥
 
उत्तरललोचन मुलूखलनिबद्धं
भग्नयमलार्जुनमसज्जनविदूरम् ।
जानुकृतचङ्क्रमणस कुलकराब्जं
 
ध्यायत नमस्कुरुत गायत किशोरम् ॥ ३० ॥
... धामपि पिङ्गलां च यमिनः कृत्वा सुषुम्नापथे
यत्नाद्वातमनाहतस्रुतसुधास्वादानुसन्धायिनः ( ? ) ।
 
सत्यं ज्ञानमनन्तमुत्तमगुणं ध्यायन्ति यत्तत्पदं
तद्ब्रह्मापि ननु त्वमेव निगमैगौरीश जेगीयसे ॥ ३१ ।
व्यक्ताव्यक्तमिदं जगत्प्रभवति त्वत्तः परं ज्योतिषः
तत्सर्वं स्वयमात्मनो महिमतः संव्याप्य संत्रायसे ।
उत्पत्तिक्रसतस्तथैव तदिदं त्वय्येव संलीयते
 
चेल्लूरेश्वर दुर्विगाहमहहा चित्र चरित्रं तव ॥ ३२ ॥
नेच्छा तुच्छतरे नरेन्द्रविभवे नापि स्मरस्मेरह-
गौराङ्गीपरिभोगकेलिपु न च स्वर्गाधिराज्योदये ।
नो तत्राप्यपवर्गकुट्टिमपरिक्रीडासु किं त्वन्वहं
 
सेवायै स्पृहयामि केवलमहं चेल्लूर पुर्याः प्रभोः ॥ ३३ ॥
 
याचे किञ्चिदिदं कृताञ्जलिपुटं चेल्लूरपुर्याः पते
 
स्वामिन् वारय चन्द्रशेखर कृपावारांनिधे मामकीम् ।
द्वित्रग्रामटिकाधिपत्यकलिताहं भावशुम्भन्मति-
 
क्षुद्रक्ष्माधव चाटुकोटि घटनादैन्यस्य दोग्ध्रीं दशाम् ॥ ३४ ॥
 
कण्ठग्राहिकफे स्खलगिरि चलद्बोधे गलन्मारुते
 
मीलचक्षुपि वेपमानहृदये काले सति प्रस्तुते ।
 
आरुह्य स्वयमद्रिराजसुतया साकं महाशाकरं
 
स्वामिन् शङ्कर सन्निधेहि कृपया चेल्लूरभूषामणे ॥ ३५ ॥
 
७१५