Proofing

2026-04-03 16:54:23 by ambuda-bot

This page has not been fully proofread.

७१४
 
देवीस्तोत्रेषु
 
कर्णं सावर्णमर्णोमुचममितशुचं दीनवाचं दधीचं
चिन्तालग्नं रत्नं शिविमपशिविकं स्वर्गवीं [ पङ् ]गुवीर्याम् ।
शश्वद्विश्राणनश्रीः शिव शिव दिविषद्दन् विषन् विधत्ते
विश्वोत्तीर्णस्य विश्वंभरचरितनिधे विक्रमक्ष्मापते ते ॥ २० ॥
 
प्रक्रीडत्कार्तवीर्यार्जुनभुजविवृतोन्मुक्तसोमोद्भवाम्भ-
 
रसंभारक्षोभसम्भेदन चतुरवचोगुम्भगम्भीरिमश्रीः ।
तुण्डीरक्षोणिखण्डादिह तव विषयेऽहिण्डतोदण्डसूरि :
 
सोऽयं ते विक्रमक्षोणिप किमु न गतः श्रोत्रियः श्रोत्रदेशम् ॥ २१ ॥
 
पुष्णन्नेव महर्निशं द्विजगणान् मृष्टान्नदानक्रमैः
 
श्रीकण्ठक्षितिपाल जीवतु भवानाचन्द्रमातारकम् ।
स्तावं स्तांवममी वयं च भवतः कीर्तिं दिशं दक्षिणा-
माढौक्य प्रतियाम कैरपि दिनैः कर्तुं पुनर्दर्शनम् ॥ २२ ॥
 
दृष्टं मया मणिकवाटपुटान्तराले
 
श्रुत्यन्त चुम्बिनयनोदितकामतन्त्रम् ।
मुग्धस्मिताङ्कुरविकस्वर गण्डमूल-
 
मुद्यन्मृगाङ्करुचिरं मुखमुत्तरायाः ॥ २३ ॥
 
वदनगलितलालं मातुरुत्सङ्गलोलं
 
तरलचिकुरजालं स्तन्यपानानुकूलम् ।
 
निखिलभुवनमूलं चेतसा सार्वकालं
 
बलभिदुपलनीलं बालमालोकयामः ॥ २४ ॥
 
जीयासुर्ज निघर्मतप्त सुमनश्चेतः सुधावृष्टयो
 
मायावल बालकस्य मधुरा वंशीनिनादाङ्कुराः ।
ये शश्वत् स्थगयन्ति गोपसुदृशां नीरन्ध्ररोमोद्गम-
श्रेणीकञ्चुलिभिर्विमूढमनसां स्रस्तोत्तरीयान् कुचान ॥ २५ ॥
 
अङ्गणे घटितरिङ्खणं चलित किङ्किणीकृतझणझणं
चञ्चलालककुलाकुलं तरललोचनं जननमोचनम् ।
अङ्कुरद्विशददन्त कुडमलविलोभनीयवदनाम्बुजं
 
शंम्बरे कमपि चिन्तयामि शिशुमिन्द्रनीलमणिमेचकम् [ ॥ २६ ॥
 
आकुलाकुलविनीलकुन्तलं गोकुलानुगति के लिलालसम् ।
आकपोलमनुलिप्तकज्जलं लोकपालकमुपैमि बालकम् ॥ २७ ॥