Stotrarnava /759
This page has not been fully proofread.
श्रीचेल्लूरपुरीशस्तवः
नीहाराहार्यकन्यामृदुलभुजलतालिङ्गनोत्कण्ठकण्ठः
खण्डं बिभ्रत्किरीटे कमपि कुवलयानन्दनाडिन्धमांशुम् ।
ब्रह्मक्षेत्रे पवित्रे परिचितकरुणः पोस्फुरीत्याश्रितानां
निर्भिन्दन् मोहबन्धानकृतकवचसां निश्चितः कश्चिदर्थः ॥ १२ ॥
घोरघ्राणमुदग्रहुङ्कृति मिलद्वर्माम्बु लम्बाधरं
व्याविद्धभ्रुकुटीकठोरनिटिलं वान्तस्फुलिङ्गेक्षणम् ।
विद्युत्पाटलकेशमुग्रदशनं विष्टब्धकर्णद्वयं
वक्त्रं मृत्युभटस्य शङ्कर नहि त्वद्भक्तिमान् पश्यति ॥ १३ ॥
भजत जननीमेकां लोकत्रयस्य दयामयीं
पतत सुधियो मा मा भीमे पुनर्भववारिधौ ।
अकृतकत्रचोवेद्यामाद्यामपा [ङ्गित ]शङ्करां
मृदितमहिषां मुक्तिक्षेत्रे मुकुन्दसहोदरीम् ॥ १४ ॥
ब्रह्मक्षेत्रेश शंभो त्वदपरममरं यद्यहं वर्णयिष्ये
कण्ठे कुण्ठप्रचारं स्खलति मम वचो जालकर्मीलदर्थम् (?) ।
तुष्टषे चेद्भवन्तं त्रिपुरहर गिरां मन्मुखाम्भोजगर्भात्
जृम्भन्ते केऽपि गुम्भा बलमथनधुनीपद्धतिस्पर्धिनीनाम् ॥ १५ ॥
भूधराधिपसुता मुखपद्मप्रभ्रमद्भ्रमरविभ्रमनेत्रः ।
बोभवीति भवभीतिविभेदी श्रीविभीतकपुरे पुरमाथी ॥ १६ ॥
योगीन्द्रमानससरोरुहषट्पदाय
शैलेन्द्रजानयनषट्पदपङ्कजाय ।
अज्ञानरूपतिमिरौघदिवाकराय
[ भक्तार्तिभञ्जनपराय नमो नमस्ते ] ॥ १७ ॥
मुहुर्भिन्तादिन्दुर्मकुटगृहमेधी पुररिपोः
परक्रोडक्रीडानिलयनजुषो मोहतिमिरम् ।
कुचे गौर्या हारा इव मृदुलहासा इव मुखे
नवा मल्लीमाला इव कचभरे यस्य किरणाः ॥ १८ ॥
काणाः किं कङ्कणस्य त्रिपुरविजयिनो नृत्यतश्चित्तर
किं वा तस्यैव चूडाघुमुघुमितवियद्वाहिनीवीचिरावाः ।
आहोस्विद्वक्त्रखेलत्कमलजम हिला श्रोणिकाञ्चीनिनादा
वाचस्ते विक्रमक्ष्मावलमथन मुखाम्भोरुहान्निस्सरन्ति ॥ १९ ॥
७१३