Stotrarnava /758
This page has not been fully proofread.
७१२
देवीस्तोत्रेषु
जननमरणक्लेशच्छेदाय जाग्रति तावके
चरणकमले मातर्हा हन्त मोहवशादहम् ।
अधनिकसदनं धावंधावं निजोदरभस्त्रिका -
भरणविधये कष्टं कष्टं भ्रमामि कियच्चिरम् ॥ ५ ॥
उत्पन्नमात्रक्षणमुक्तमाया-
स्त्रैणस्य विष्णोः स्तनपानलोभात् ।
मुधैव चुम्बन्तमुरो मुखेन
शास्तारमीडे सकलार्थसिद्धयै ॥ ६ ॥
यद्दोरन्तरमम्बुराशिसुकृतोन्मेषेण शृङ्गारितं
यन्नाभीकमले चरन्मधुकरो निर्मातुमीष्टे जगत् ।
यन्नेत्रद्वयमातनोति जगतां नक्तंदिवाप्रक्रमं
नावाक्षेत्रविहारिणी विजयते काचिन्महः प्राचुरी ॥ ७ ॥
शब्दब्रह्मचणं यदीय' तलिमं छन्दांसि यद्वाहनं
वक्षो यस्य महाम्बुराशितपसां पाकेन कल्लोलितम् ।
विश्वोत्पत्तिनिदानसूतिसदनं यन्नाभिपङ्केरुहं
सोऽयं कोऽपि मुरारिनामनि पुरे देवो दरीदृश्यते ॥ ८ ॥
प्रादुस्सन्तु पुरः पुरत्रयवधूबिब्बोकसंपद्रुहः
श्रीचेल्लूर पुरीनिवासरसिकास्तेजोविलासा मम ।
येषु ध्यानपथं गतेषु भविता नृणां फणी भूषणं
वामाङ्ग वनिता दिशश्च वसनं भागीरथी मालिका ॥ ९ ॥
ये ध्यायन्ति निषेदुषीमुपपटं व्याख्यानमुद्रासखीं
मूर्ति ते मुनिमानसैकसुगमां मुग्धेन्दुचूडामणे ।
तेषामाशु विनिःसरन्ति वदनात् सङ्क्रन्दनारामभू-
मन्दारद्रुमकोरकस्रुतसुधामाधुर्यधुर्या गिरः ॥ १० ॥
उत्कूल प्रणयातिरेकमुदयद्रोमाञ्चपुञ्ज मुहु:-
प्रत्याख्यानपरैकभागवचनं चेल्लूर पुर्यामहो ।
नीवीस्पर्शविलोलदक्षिणकरव्यापाररोधक्रिया-
वैय्याकुलवामपाणि शिवयोरैक्यं परिक्रीडते ॥ ११ ॥
1. तलिमम् = तलिप्पेरम्बा नाम क्षेत्रम् ।