Stotrarnava /757
This page has not been fully proofread.
श्रीसौभाग्यकवचम्
त्रिसन्ध्यं यः पठेद्भक्त्या शृणुयाद्वा समाहितः ।
तस्य शीघ्रेण सिध्यन्ति सिद्धयस्त्वणिमादयः ॥ ७९ ॥
घुटिकापादुकाद्यष्टसिद्धयः सम्भवन्ति च ।
वश्यादीन्यष्टकर्माणि योगश्चाष्टाङ्गसंयुतः ॥ ८० ॥
ब्रह्मविष्णु गिरीशेन्द्र कन्दर्परतिभिः सह ।
विचरन्ते तदखिलान् सिद्धगन्धर्वसेविताः ॥ ८१ ॥
तस्य स्मरणमात्रेण ग्रहभूतपिशाचकाः ।
कीटवत् प्रपलायन्ते कूश्माण्डा भैरवादयः ॥ ८२ ॥
तस्याङ्घ्रितोयपतनात् प्रशाम्यन्ति महारुजाः ।
तत्पादकमलासक्तरजोलेशाभिर्शनात् ॥ ८३ ॥
वश्यं भवति शीघ्रेण त्रैलोक्यं सचराचरम् ।
आ[ स ] बालमहिला भूपाः किमु मायाविमोहिताः ॥ ८४ ॥
॥ इति वामकेश्वरतन्त्रे नित्याषोडशिकार्णवे श्रीसौभाग्यकवचं सम्पूर्णम् ॥
1.
३०. ॥ अथ श्री चेल्लूरपुरीशस्तवः ॥
लक्ष्मीविद्युद्विलासः प्रसृमरकरुणासारवर्ष्मप्रकर्षः
कुर्वाणो नीलकण्ठं प्रमदपरवशं चन्द्रकोद्भासमानम् ।
सच्चेतश्चातकानां सपदि विरचय [न्धारयान ] न्दपूरं
दृष्टोऽयं सङ्गमाख्ये महति पुरवरे श्यामलः कोऽपि मेघः ॥ १ ॥
चित्रं जनाः शृणुत सङ्गमरङ्गभाजो
लक्ष्मीसखस्य पुरतः पुरुषोत्तमस्य ।
मध्ये कुली पनि निमज्य भवांबुराशे-
रुद्धूतपङ्कमुदमज्जि मया किमेतत् ॥ २ ॥
कर्णायुष्यमुदञ्चयत्यहरहः श्रीशम्बराध्यासिनो
बालस्याम्बुदमेचकस्य मधुरो वेणुध्वनिर्विश्रुतः ।
वृक्षान् पल्लवयन् शिलास्तरलयन्नम्भांसि च स्तम्भयन्
गोपस्त्री कुच मण्डलीः पुलकयंस्तापत्रयं खण्डयन् ॥ ३ ॥
तेजांसि मानसे मे दृढकुचकुम्भानि दलितसुंभानि ।
विद्यात्मकानि कान्यपि विद्यन्ते कान्तितुलित विन्ति ॥ ४ ॥
श्रीशम्बरमू=Triccambaram.
७११