Proofing

2026-04-03 16:54:23 by ambuda-bot

This page has not been fully proofread.

७१०
 
देवीस्तोत्रेषु
 
सर्वरक्षाकरं चक्रं रक्षतान्मे गुणत्रयम् ।
सर्वरोगहरं चक्रं पायात् पुर्यष्टकं मम ॥ ६४ ॥
सर्वसिद्धिप्रदं चक्रमव्यान्मे कोशपञ्चकम् ।
सर्वानन्दमयं चक्रं यशः कीर्ति च रक्षतु ॥ ६५ ॥
सौन्दर्यं मन्मथा पायाद् धृतिश्चापि रतिं मम ।
प्रीतिं मे पातु या प्रीतिरूपा पातु वसन्तकः ॥ ६६ ॥
सङ्कल्पं कल्पकोद्यानं महालक्ष्मीः श्रियं मम ।
कान्ति कपालिनीं रक्षेत् मन्दिरं मणिमण्डपः ॥ ६७ ॥
पुत्रान् शङ्खनिधिः पायाद्भार्यां पद्मनिधिस्तथा ।
मार्गे क्षेमकरी रक्षेत्मातङ्गी मकुटं तथा ॥ ६८ ॥
योगिनीप्रकटाद्यास्ता नवद्वाराणि पान्तु मे ।
भोजने मामन्नपूर्णा मातङ्गी क्रीडनेऽवतात् ॥ ६९॥
वने रक्षतु मां दुर्गा जाग्रती दुष्टनिग्रहे ।
त्रिधाहङ्कारनैष्ठुर्यदोषत्रयमलत्रयम् ॥ ७० ॥
डाकिन्यो योगिनीमुख्याः संहरन्तु ममानिशम् ।
इच्छाशक्तिर्गुरोर्भक्तिं पातु मे ज्ञानमात्मनि ॥ ७१ ॥
ज्ञानशक्तिः क्रियाशक्तिवैराग्यविषयेष्वपि ।
हृत्पद्मकर्णिकामध्ये ह्रींकारी परिरक्षतु ॥ ७२ ॥
वैखरी श्रवणं पातु मध्यमा मननं पुनः ।
योगं रक्षतु पश्यन्ती साक्षत् ज्ञानपरा मम ॥ ७३ ॥
 
ब्रह्माणी जाग्रतं पातु शयानं वैष्णवी तथा ।
सुषुप्तौ चण्डिका पातु तुर्या मे मोहकारिणी ॥ ७४ ॥
सदा मां भैरवी पातु जगद्भरणपण्डिता ।
चरणाम्भोरुहानन्दपरामृतरसेरिता ॥ ७५ ॥
प्लाविनी कुण्डली पूर्णा अन्तरान्तं सदावतात् ।
अष्टदिक्षु महेन्द्राद्याः सायुधाः पान्तु सर्वदा ॥ ७६ ॥
 
पायादूर्ध्वा दिशं ब्रह्मा विष्णुश्चक्रायुधोप्यधः ।
अनावृतानि स्थानानि कवचेन तु यानि मे ॥ ७७ ॥
तानि सर्वाणि रक्षन्तु शिवाद्या गुरवः सदा ।
एतत्सौभाग्यकवचं शाङ्करं यस्तु पाठयेत् ॥ ७८ ॥