Stotrarnava /755
This page has not been fully proofread.
श्रीसौभाग्यकवचम्
अङ्गुलीररुणा पातु दक्षपादन खोज्ज्वलाः ।
तदन्या जयिनी पातु सदा वाग्देवता मम ॥ ५० ॥
वामपादतलं पायात् कौलिनी देवता मम ।
कुर्वन्तु जृम्भणा बाणा: त्रैलोक्याकर्षणं मम ॥ ५१ ॥
मोहं संहरतादिक्षुकोदण्डं भृङ्गमौर्विकम् ।
करोतु सततं पाशो वशीकरणमद्भुतम् ॥ ५२ ॥
विदध्यादङ्कुशं नित्यं स्तम्भनं शत्रुसङ्कटे ।
पीठ मे कामरूपाख्यं पातु कामान्तिकं मनः ॥ ५३ ॥
पूर्ण पूर्णगिरेः पोठं कान्ति मे जनयेत् सदा ।
जालन्ध्रमन्यजालन्ध्रपीठं रक्षतु मे सदा ॥ ५४ ॥
सायुज्ये नियतां प्रज्ञां श्रीपीठं श्रीकरं मम ।
कामेश्वरीत्वात्मतत्त्वं रक्षेद्वज्रेश्वरी तथा ॥ ५५ ॥
विद्यातत्त्वं शैवतत्त्वं पायाच्छ्रीभगमालिनी ।
कामञ्चिद्यान्महाशत्रूनमृतार्णवमानसम् ॥ ५६ ॥
क्रोधं क्रोधापहा हन्यान्मन्युं पैताम्बुजासनम् ।
लोभं चिदासनं हन्याद्देव्यात्मामृतरूपभाक् ॥ ५७ ॥
मोहं संहरताच्चक्रं मदन्मन्त्रासनं मम ।
मात्सर्यं नाशयेन्नित्यं मम सान्ध्यासनं तथा ॥ ५८ ॥
आधारं त्रिपुरा रक्षेत् स्वाधिष्ठानं पुरेश्वरी ।
मणिपूरं मणिद्योता पायात्रिपुरसुन्दरी ॥ ५९ ॥
अव्यादनाहतं भव्या नित्यं त्रिपुरवासिनी ।
विशुद्धिं त्रिपुरा श्रीश्च आज्ञां त्रिपुरमालिनी ॥ ६० ॥
इडां मे त्रिपुरा सिद्धा त्रिपुरा चापि पिङ्गलां ।
सुषुम्नां पातु मे नित्या पायात्त्रिपुरभैरवी ॥ ६१ ॥
त्रैलोक्यमोहनं चक्रं रोमकूपांश्च रक्षतु ।
सर्वाशापूरकं चक्रं सप्त धातूंश्च रक्षतु ।
सर्वसंक्षोभणं चक्रं प्राणाद्यं वायुपञ्चकम् ॥ ६२ ॥
सौभाग्यदायकं चक्रं नागाद्यनिलपञ्चकम् ।
सर्वार्थसाधकं चक्रं कारणानां चतुष्टयम् ॥ ६३ ॥
७०९