Stotrarnava /754
This page has not been fully proofread.
७०८
देवीस्तोत्रेषु
सा सर्वस्तम्भिनी पृष्ठं नाभिं वै सर्वजृम्भिणी ।
वशङ्करी वस्तिदेशं सर्वसंस्तम्भिनी कटिम् ॥ ३५ ॥
सा तु सर्वोन्मादिनी मे पायाज्जघनमण्डलम् ।
सर्वार्थसाधिनी शक्ति: नितम्बं रक्षतान्मम ॥ ३६ ॥
दक्षस्फिचं सदा पातु सर्वसम्पत्तिपूरणी ।
सर्वमन्त्रमयी शक्तिः पातु वामस्फिचं मम ॥ ३७ ॥
पायात् कुकुन्दरद्वन्द्वं सर्वद्वन्द्वक्षयङ्करी ।
सर्वसिद्धिप्रदा देवी पातु दक्षिणवङ्क्षणम् ॥ ३८॥
सर्वसम्पत्प्रदा देवी पातु मे वामवङ्क्षणम् ।
सर्वप्रियङ्करी देवी गुह्यं रक्षतु मे सदा ॥ ३९ ॥
मेढूं रक्षतु मे देवी सर्वमङ्गलकारिणी ।
सर्वकामप्रदा देवी पातु मुष्कं तु दक्षिणम् ॥ ४० ॥
पायात्तदन्यमुष्कं तु सर्वदुःखविमोचनी ।
सर्वमृत्युप्रशमनी देवी पातु गुदं मम ॥ ४१ ॥
पातु देवी गुह्यमध्यं सर्वविघ्ननिवारिणी ।
सर्वाङ्गसुन्दरी देवी रक्षताद्दक्षसक्थिकम् ॥ ४२ ॥
वामसक्थितलं पायात् सर्वसौभाग्यदायिनी ।
अष्ठीवं मम सर्वज्ञा देवी रक्षतु दक्षिणम् ॥ ४३ ॥
वामाष्ठीवं सर्वशक्तिः देवी पातु युगं मम ।
सर्वैश्वर्यप्रदा देवी दक्षजानुं सदावतु ॥ ४४ ॥
सर्वज्ञानमयी देवी जानुमन्यं ममावतात् ।
अव्यादेवी दक्षजङ्घां सर्वव्याधिविनाशिनी ॥ ४५॥
तदन्यां पातु देवी सा सर्वाधारस्वरूपिणी ।
सर्वपापहरा देवी गुल्फं रक्षतु दक्षिणम् ॥ ४६ ॥
सर्वानन्दमयी देवी वामगुल्फं सदावतु ।
पाणि मे दक्षिणं पायात् सर्वरक्षास्वरूपिणी ॥ ४७ ॥
अव्यात् सव्यं सदा पाष्णि सर्वेप्सित फलप्रदा ।
दक्षाङ्घ्रिपाश्वं वशिनी पूर्वं [ वामं ] वाग्देवता मम ॥ ४८ ॥
सर्वं कामेश्वरी पूर्व [चोर्ध्व ] मधो वाग्देवता मम ।
मेदिनी प्रपदं पातु विमला दक्षिणेतरे ॥ ४९ ॥