Proofing

2026-04-03 16:54:22 by ambuda-bot

This page has not been fully proofread.

श्रीसौभाग्यकवचम्
 
कण्ठं रक्षतु वाराही चैन्द्राणी रक्षतादधः ।
कृकाटिकां तु चामुण्डा महालक्ष्मीस्तु सर्वतः ॥ २८ ॥
सर्वसंक्षोभिणी मुद्रा स्कन्धं रक्षतु दक्षिणम् ।
तदन्यं द्राविणी मुद्रा पायासद्वयं क्रमात् ॥ २१ ॥
आकर्षणी वश्यमुद्रा चोन्मादिन्यथ दक्षिणम् ।
भुजं महाङ्कुशा वामं खेचरी दक्षकक्षकम् ॥ २२ ॥
वामकक्षं बीजमुद्रा योनिमुद्रा तु दक्षिणम् ।
लसत्त्रखण्डिनी मुद्रा वामभागं प्रपालयेत् ॥ २३ ॥
श्रीकामाकर्षिणी नित्या रक्षताद्दक्षकूर्परम् ।
 
कूर्परं वाममत्रतात् सा बुद्धयाकर्षिणी तथा ॥ २४ ॥
अहङ्काराकर्षिणी तु प्रकाण्डं पातु दक्षिणम् ।
शब्दाकर्पिणिका वामं स्पर्शाकर्पिणिकावतु ॥ २५ ॥
प्रकोष्ठं दक्षिणं पातु रूपाकर्षिणिकेतरम् ।
रसाकर्षिणिका पातु मणिबन्धं च दक्षिणम् ॥ २६ ॥
गन्धाकर्पिणिका वामं चित्ताकर्षणिकावतु ।
 
करभं दक्षिण धैर्याकर्षिणी पातु वामकम् ॥ २७ ॥
स्मृत्याकर्षिण्यसौ वामं नामाकर्षिणिकेतरम् ।
 
बीजाकर्षिणिका पायात् सततं दक्षिणाङ्गुलीः ॥ २८ ॥
 
आत्माकर्षिणिका त्वन्या अमृताकर्षिणी नखान् ।
 
शरीराकर्षणी वामनखान् रक्षतु सर्वदा ॥ २९ ॥
 
अनङ्गकुसुमा शक्तिः पातु दक्षस्तनोपरि ।
 
अनङ्गमेखला चान्यस्तनोर्ध्वमभिरक्षतु ॥ ३० ॥
 
अनङ्गमदना दक्षा स्तनं तच्चूचुकं पुनः ।
रक्षतादनिश देवी ह्यनङ्गमदमेदुरा ॥ ३१ ॥
 
अनङ्गरेखा वामं तु वक्षोजं तस्य चूचुकम् ।
अनङ्गवेगिनी क्रोडमनङ्गस्याङ्कुशावतु ॥ ३२ ॥
 
अनङ्गमालिनी पायाद्वक्षःस्थलमहर्निशम् ।
सर्वसंक्षोभिणी शक्तिर्हृत्सर्वद्राविणी परा ॥ ३३॥
 
कुक्षिं सर्वाकर्षिणी तु पातु पार्श्व च दक्षिणम् ।
आह्लादिनी वामपार्श्व मध्यं सम्मोहिनी चिरम् ॥ ३४ ॥
 
७०७