Stotrarnava /752
This page has not been fully proofread.
७०६
श्रीसौभाग्यकवचम्
क्लीबत्वदैत्यहन्त्री क्लिन्नमनस्कां महेश्वराश्लिष्टाम् ।
कुप्तजनेष्टकत्र कल्पितलोकभ्रमां नमामि कलाम् ॥ ६ ॥
सौभाग्यदिव्यक निधिं सौरभकचवृन्दविचलदलिमालाम् ।
सौशील्यशेषतल्पां सौन्दर्यविभामञ्जरीं कलये ॥ ७ ॥
पाशपाणि सृणिपाणि भावये चापपाणि शरपाणि दैवतम् ।
यत्प्रभापटलपाटलं जगत् पद्मरागमणिमण्डपायते ॥ ८ ॥
हेमाद्रौ हेमपीठस्थितिमखिलसुरैरीड्यमानां विराज-
त्पुष्पेष्विष्वासपाशाङ्कुशकरकमलां रक्तवेषातिरक्ताम् ।
दिक्षूद्यद्भिश्चतुर्भिर्मणिमय कलशैः पञ्चशक्त्याञ्चितैः स्व-
Tag: क्लृप्ताभिषेकां भजत भगवतीं भूतिदामन्त्ययामे ॥ ९ ॥
शिखायं सततं पातु मम त्रिपुरसुन्दरी ।
शिरः कामेश्वरी नित्या तत्पूर्वं भगमालिनी ॥ १० ॥
नित्यक्लिन्नावतादक्षं भेरुण्डा तस्य पश्चिमम् ।
वह्निवासिन्यवेद्वामं मुखं विद्येश्वरी तथा ॥ ११ ॥
शिवदूती ललाटं मे त्वरिता तस्य दक्षिणम् ।
तद्वामपार्श्वमवतात्तथैव कुलसुन्दरी ॥ १२ ॥
नित्या पातु भ्रुवोर्मध्यं ध्रुवं नीलपताकिनी ।
वामध्रुवं तु विजया नयनं सर्वमङ्गला ॥ १३ ॥
ज्वालामालिन्यक्षि वामं चित्रा रक्षतु पक्ष्मणी ।
दक्षश्रोत्रं महानित्या वामं पातु महोद्यमा ॥ १४ ॥
दक्षं वामं च वटुका कपोलौ क्षेत्रपालिका ।
दक्षनासापुटं दुर्गा तदन्यं पातु भारती ॥ १५ ॥
नासिकाग्रं सदा पातु महालक्ष्मीर्निरन्तरम् ।
अणिमा दक्षिणकटिं महिमा च तद्न्यकम् ॥ १६ ॥
दक्षगण्डं च गरिमा लघिमा चोत्तरं तथा ।
ऊर्ध्वोष्ठकं प्राप्तिसिद्धिः प्राकाम्यमधरोष्ठकम् ॥ १७ ।
ईशित्वमूर्ध्वदन्तांच धो दन्तान् वशित्वकम् ।
रससिद्धिश्च रसनां मोक्षसिद्धिश्च तालुकम् ॥ १८ ॥
तालु मूलद्वयं ब्राह्मीमाहेश्वर्यौ च रक्षताम् ।
कौमारी चिबुकं पातु तदधः पातु वैष्णवी ॥ १९ ॥