Proofing

2026-04-27 01:05:30 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीपार्वतीमानसस्तोत्रम
 
७०५</ignore>
<verse>
लक्ष्मीर्मोमौक्तिकलक्षकल्पितसितच्छत्रं नु धत्ते सदा
 

हीन्द्राणी च रतिश्च चामरवरौ धत्ते स्वयं भारती ।

वीणामेणविलोचनाः सुमनसां नृत्यन्ति सद्रागव-
 
७०५
 

द्भावैरिङ्गितसाक्षिकैः स्फुटलसम्म न्<delete>म</delete><add>[ मा] </add>तस्तदालोक्यताम् ॥ १४ ॥
ही
</verse>
<verse>ह्री
ङ्कारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि-
 

र्
वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।

संलापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु मे

संवेशो नमनासहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १५ ॥
</verse>
<verse>
श्री मन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा

सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलस्याचिरात् ।

चित्ताम्भोरुहमण्टपे गिरिसुता नृत्तं विधत्ते सदा

वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६ ॥
</verse>
<trailer text="28_END">
॥ इति श्रीपार्वती मानसस्तोत्रं सम्पूर्णम् ॥
 
</trailer>
<footnote text="29_START">
२९. ॥ अथ श्री सौभाग्यकवचम् ॥
</footnote>
<verse>
केलासशिखरे रम्ये सुखासीनं सुरार्चितम् ।

गिरीशं गिरिजा स्तुत्वा स्तोत्रैर्वेदान्तपारगैः ॥ १ ॥
</verse>
<verse>
प्रणम्य परया भक्त्या तमपृच्छत् कृताञ्जलिः ।

रहस्यं रक्षणं किं वा सर्वसम्पत्करं वद ॥ २ ॥
</verse>
<verse>
शृणु देवि प्रवक्ष्यामि यस्मात्त्वं परिपृच्छसि ।

यस्य श्रवणमात्रेण भवभीतिर्न जायते ॥ ३ ॥
</verse>
<verse>
एतत् सौभाग्यकवचं रहस्यातिरहस्यकम् ।
 

सौभाग्यकवचं देवि शृणु सौभाग्यदायकम् ॥ ४॥
 
</verse>
<p n="viniyoga">
ओं अस्य श्रीसौभाग्यकवचस्तोत्रमहामन्त्रस्य आनन्दभैरव ऋषिः ।

अनुष्टुप् छन्दः । श्रीसौभाग्यसुन्दरी देवता । ओं क्लीं सौः बीजम् । ह्रीं क्लीं शक्तिः ।

आं ह्रीं क्रींरों कीलकम् । मम सौभाग्यसिद्ध्यर्थे जपे विनियोगः । ऐं इत्यादि
 

षडङ्गन्यासः ॥
 
</p>
<heading>
॥ ध्यानम् ॥
 
</heading>
<verse n="5">
ऐहिकपर फलदात्रीमैशानीं मनसि भावये मुद्राम् ।

ऐन्दवकलावतंसामैश्वर्यस्फुरणपरिणतिं जगताम् ॥ ५ ॥
 
</verse>
<ignore>
45
 
</ignore>
</page>