Proofing

2026-04-03 16:54:21 by ambuda-bot

This page has not been fully proofread.

श्रीपार्वतीमानसस्तोत्रम
 
लक्ष्मीर्मोक्तिकलक्षकल्पितसितच्छत्रं नु धत्ते सदा
 
हीन्द्राणी च रतिश्च चामरवरौ धत्ते स्वयं भारती ।
वीणामेणविलोचनाः सुमनसां नृत्यन्ति सद्रागव-
 
७०५
 
द्भावैरिङ्गितसाक्षिकैः स्फुटलसम्म [ मा] तस्तदालोक्यताम् ॥ १४ ॥
हीङ्कारत्रयसंपुटेन मनुनोपास्ये त्रयीमौलिभि-
 
वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।
संलापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु मे
संवेशो नमनासहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १५ ॥
श्री मन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलस्याचिरात् ।
चित्ताम्भोरुहमण्टपे गिरिसुता नृत्तं विधत्ते सदा
वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६ ॥
॥ इति श्रीपार्वती मानसस्तोत्रं सम्पूर्णम् ॥
 
२९. ॥ अथ श्री सौभाग्यकवचम् ॥
केलासशिखरे रम्ये सुखासीनं सुरार्चितम् ।
गिरीशं गिरिजा स्तुत्वा स्तोत्रैर्वेदान्तपारगैः ॥ १ ॥
प्रणम्य परया भक्त्या तमपृच्छत् कृताञ्जलिः ।
रहस्यं रक्षणं किं वा सर्वसम्पत्करं वद ॥ २ ॥
शृणु देवि प्रवक्ष्यामि यस्मात्त्वं परिपृच्छसि ।
यस्य श्रवणमात्रेण भवभीतिर्न जायते ॥ ३ ॥
एतत् सौभाग्यकवचं रहस्यातिरहस्यकम् ।
 
सौभाग्यकवचं देवि शृणु सौभाग्यदायकम् ॥ ४॥
 
ओं अस्य श्रीसौभाग्यकवचस्तोत्रमहामन्त्रस्य आनन्दभैरव ऋषिः ।
अनुष्टुप् छन्दः । श्रीसौभाग्यसुन्दरी देवता । ओं क्लीं सौः बीजम् । ह्रीं क्लीं शक्तिः ।
आं ह्रीं क्रीं कीलकम् । मम सौभाग्यसिद्धयर्थे जपे विनियोगः । ऐं इत्यादि
 
षडङ्गन्यासः ॥
 
॥ ध्यानम् ॥
 
ऐहिकपर फलदात्रीमैशानीं मनसि भावये मुद्राम् ।
ऐन्दवकलावतंसामैश्वर्यस्फुरणपरिणतिं जगताम् ॥ ५ ॥
 
45