Proofing

2026-04-27 01:01:12 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
देवीस्तोत्रेषु
 
</ignore>
<verse>
हंसैरप्यतिलोभनीय गमने हारावलीमुज्ज्वलां

हिन्तालद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।

मञ्जीरे मणिकुण्डले मफुकुटमप्यर्धेन्दुचूडामणि
णिं
नासामौक्तिकमङ्गुलीयकटकान् काञ्चीमपि स्वीकुरु ॥ ६ ॥
 
</verse>
<verse>
सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
 

कस्तूरीतिलकं च फालफलके गोरोचनापत्रके ।

गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
 

कण्ठ।ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७ ॥
</verse>
<verse>
कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-
 

र्जा
तीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।
 

केक्या करवीरकैर्बहुविधैः कृत्वा स्रजो मालिकां

सङ्कल्पेन समर्पयामि वरदे त्वत्प्रीतये कल्पताम् ॥ ८॥
</verse>
<verse>
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वले

यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।

तानीमानि तवाम्ब कोमलतराण्यामोद लीलागृहा-

ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९ ॥
</verse>
<verse>
लक्ष्मीरुज्ज्वलयामि रत्ननिवहैर्भादन्तुरे मन्दिरे

मालारूपविलम्बितैर्मणिमयैः स्तम्भेषु सम्भावितैः ।

रत्नैर्हाटक पुत्रिकाकरगतैर्गन्व्यै र्घृतैर्वर्त्तिभिः
 

दिव्यैर्दीप गणैर्धिया गिरिसुते त्वत्प्रीतये कल्पताम् ॥ १० ॥
 
</verse>
<verse>
ह्रीङ्कारेश्वरि तप्तहाटककृतस्थालीसहस्त्रैर्भूभृतं
 

दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तव ।
 

दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
 

माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११ ॥
 
</verse>
<verse>
सच्छायैर्वर केतकीदलरुचा ताम्बूलवल्लीदलैः
 

पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूर<delete>क</delete><add>[ख]</add>ण्डोज्ज्वलैः ।

मुक्तापूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
 

पू<error></error><fix>र्णा</fix> रत्नकलाचिका तव मुद्दे न्यस्ता पुरस्ताद्रमे ॥ १२ ॥
 
</verse>
<verse>
कन्याभिः कमनीयकान्तिभिरलंङ्कारामलाभिः <fix> </fix>सदा

पात्रीमौक्तिकचित्रवर्ति विलसत्कर्पूर दीपालिभिः ।

तत्तत्तालमृदङ्गनादसहितं नृत्यत्पदाम्भोरुहं
 

मन्त्राराधनपूर्वकं सुनिहितं नीराजनं गृह्यताम् ॥ १३ ॥
 
</verse>
</page>