Proofing

2026-04-03 16:54:21 by ambuda-bot

This page has not been fully proofread.

देवीस्तोत्रेषु
 
हंसैरप्यतिलोभनीय गमने हारावलीमुज्ज्वलां
हिन्तालद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।
मञ्जीरे मणिकुण्डले मफुटमप्यर्धेन्दुचूडामणि
नासामौक्तिकमङ्गुलीयकटकान् काचीमपि स्वीकुरु ॥ ६ ॥
 
सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
 
कस्तूरीतिलकं च फालफलके गोरोचनापत्रके ।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽचितं
 
कण्ठ।ब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७ ॥
कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहै-
 
जतीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।
 
केसक्या करवीरकैर्बहुविधैः कृत्वा स्रजो मालिकां
सङ्कल्पेन समर्पयामि वरदे त्वत्प्रीतये कल्पताम् ॥ ८॥
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वले
यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोद लीलागृहा-
ण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९ ॥
लक्ष्मीरुज्ज्वलयामि रत्ननिवहैर्भादन्तुरे मन्दिरे
मालारूपविलम्बितैर्मणिमयैः स्तम्भेषु सम्भावितैः ।
रत्नैर्हाटक पुत्रिकाकरगतैर्गन्यै घृतैर्वर्त्तिभिः
 
दिव्यैर्दीप गणैर्धिया गिरिसुते त्वत्प्रीतये कल्पताम् ॥ १० ॥
 
ह्रीङ्कारेश्वरि तप्तहाटककृतस्थालीसहस्त्रैर्भूतं
 
दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तव ।
 
दुग्धानं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं
 
माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११ ॥
 
सच्छायैर्वर केतकीदलरुचा ताम्बूलवल्लीदलैः
 
पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरक [ख]ण्डोज्ज्वलैः ।
मुक्तापूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः
 
पूण रत्नकलाचिका तव मुद्दे न्यस्ता पुरस्ताद्रमे ॥ १२ ॥
 
कन्याभिः कमनीयकान्तिभिरलंङ्कारामलाभिः सदा
पात्रीमौक्तिकचित्रवर्ति विलसत्कर्पूर दीपालिभिः ।
तत्तत्तालमृदङ्गनादसहितं नृत्यत्पदाम्भोरुहं
 
मन्त्राराधनपूर्वकं सुनिहितं नीराजनं गृह्यताम् ॥ १३ ॥