Proofing

2026-04-27 00:56:50 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीपार्वती मानसस्तोत्रम्
 
७०३</ignore>
<verse>
पार्वत्याः पदमत्र दृश्यमिति वा पादेभवत्वेन वा
 

साधुत्त्वात्तदुपास्तये हिततया पद्यान्यमूनि स्फुटम् ।

सैपाषा मुक्ति पुरीगिरीन्द्रतनयातोपाषाय नारायणे-
 

नाबद्धा खलु सत्पतिर्दिशतु वः कल्याणहल्लोहलम् ॥ ७० ॥
</verse>
<verse>
दक्षाधःकरपल्लवे लसदसिं दक्षो र्ध्वके शूलिनीं
 

वामोर्ध्वे फलकोज्ज्वलां कटितटिन्यस्तान्यहस्ताम्बुजाम् ।

शूलाग्र।राहतका सरासुरशिरोनिष्टांठां प्रहृष्टां सुरैः
 

जुष्टामिष्टफलप्रदां भगवतीं मुक्तिस्थलस्थां भजे ॥ ७१ ॥
</verse>
<trailer text="27_END">
॥ इति श्रीनारायणविरचिता श्रीपाद सप्ततिः समाप्ता ॥
 
</trailer>
<title text="28_START">
२८. ॥ अथ श्रीपार्वतीमानसस्तोत्रम् ॥
 
</title>
<verse>
कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि-
 

द्वीपे कल्पकवाटिकापरिवृते कादम्बवाप्युज्ज्वले

रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे
 

चिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥ १ ॥
</verse>
<verse>
एणाङ्कानलभानुमण्डललसच्छीछ्रीचक्रमध्यस्थितां
 

बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।

चापं बाणमपि प्रसन्नवदनां कौसुम्भवर्णाणांशुकां

तां त्वां चन्द्रकलांवतंसमकुटां चारुस्मितां भावये ॥ २ ॥
</verse>
<verse>
ईशानादिपदं शिवैक फलकं रत्नासनं ते शुभं
 

पाद्यं चन्दनकुङ्कुमादिभरितैर<error>र्ध्यं</error><fix>र्घ्यं</fix> सुरत्नाक्षतैः ।

शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं

कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥ ३ ॥
</verse>
<verse>
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालक्षणे

प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।
 

गोक्षीरैरपि <error>नालिकेर</error><fix>नारिकेल</fix>सलिलैः शुद्धोदकैर्मन्त्रितैः
 

स्नानं देवि विधेहि मङ्गलकरैर्गाङ्गेयकुम्भोद्धृतैः ॥ ४ ॥
</verse>
<verse>
ह्रीङ्काराङ्कितमन्त्रलक्षिततनो हेमाचलात्सञ्चितै-
 

रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।
 

मुक्तासन्त<error>तं </error><fix>[त ] </fix>यज्ञसूत्रममलं सौवर्णतन्तूद्भवं
 

दत्तं देवि धिया मया तदखिलं सन्तुष्टये कल्पताम् ॥ ५ ॥
 
७०३
 
</verse>
</page>