Proofing

2026-04-03 16:54:21 by ambuda-bot

This page has not been fully proofread.

श्रीपार्वती मानसस्तोत्रम्
 
पार्वत्याः पदमत्र दृश्यमिति वा पादेभवत्वेन वा
 
साधुत्त्वात्तदुपास्त हिततया पद्यान्यमूनि स्फुटम् ।
सैपा मुक्ति पुरीगिरीन्द्रतनयातोपाय नारायणे-
 
नाबद्ध खलु सत्पतिर्दिशतु वः कल्याणहल्लोहलम् ॥ ७० ॥
दक्षाधःकरपल्लवे लसदसिं दक्षो के शूलिनीं
 
वामोर्ध्वे फलकोज्ज्वलां कटितटिन्यस्तान्यहस्ताम्बुजाम् ।
शूलाग्र।हतका सरासुरशिरोनिष्टां प्रहृष्टां सुरैः
 
जुष्टामिष्टफलप्रदां भगवतीं मुक्तिस्थलस्थां भजे ॥ ७१ ॥
॥ इति श्रीनारायणविरचिता श्रीपाद सप्ततिः समाप्ता ॥
 
२८. ॥ अथ श्रीपार्वतीमानसस्तोत्रम् ॥
 
कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणि-
 
द्वीपे कल्पकवाटिकापरिवृते कादम्बवाप्युज्ज्वले
रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे
 
चिन्तारत्नविनिर्मितं जननि ते सिंहासनं भावये ॥ १ ॥
एणाङ्कानलभानुमण्डललसच्छीचक्रमध्यस्थितां
 
बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवर्णाशुकां
तां त्वां चन्द्रकलांवतंसमकुटां चारुस्मितां भावये ॥ २ ॥
ईशानादिपदं शिवैक फलकं रत्नासनं ते शुभं
 
पाद्यं चन्दनकुङ्कुमादिभरितैरर्ध्य सुरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं
कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥ ३ ॥
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालक्षणे
प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।
 
गोक्षीरैरपि नालिकेरसलिलैः शुद्धोदकैर्मन्त्रितैः
 
स्नानं देवि विधेहि मङ्गलकरैर्गाङ्गेयकुम्भोद्धृतैः ॥ ४ ॥
ह्रीङ्काङ्कितमन्त्रलक्षिततनो हेमाचलात्सञ्चितै-
 
रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।
 
मुक्तासन्ततं [त ] यज्ञसूत्रममलं सौवर्णतन्तूद्भवं
 
दत्तं देवि धिया मया तदखिलं सन्तुष्टये कल्पताम् ॥ ५ ॥
 
७०३