Proofing

2026-04-03 16:54:21 by ambuda-bot

This page has not been fully proofread.

७०२
 
देवीस्तोत्रेषु
 
त्वद्भक्तोऽहमबुद्धिपूर्वलिखितं स्याच्चेत् क्षमेथाश्शिवे
कान्तस्ते मयि रोषवान् कुरु पुनस्तस्यार्द्रभावं शनैः ।
देवि त्वं महिषादिहन्त्रि चकितं त्रायस्व मे वाहनं
कालस्येति जयन्ति ते पदनतौ लोलस्य सत्प्रार्थनाः ॥ ६२ ॥
धर्माचारपरोऽहमित्यपमतो रक्षोभिरेकान्वये -
 
मह्यं वेदविनिन्दितां दिशमदुर्जातिद्विषश्चामराः ।
दैवादित्युभयच्युतो विशरणो रक्ष्योऽहमित्यादयः
 
त्वत्पादप्रणतौ जयन्ति निऋतेरित्याकुलाः प्रार्थना: ॥ ६३ ॥
मत्पुत्र्या मम वा मुकुन्दगृहताभाग्यं न संक्षीयतात्
माहं पायिषि कुम्भजेन मुनिना कल्पान्तसूर्येण वा ।
द्वेधा मे सुवाहिनीदयितता साधु त्वया रक्ष्यतां
त्वत्पादाम्बुजपातिनो जलपतेरित्थं जयन्त्यर्थना: ॥ ६४ ॥
विश्वप्राणमयी त्वमेव मम तु प्राहुर्जगत्प्राणतां
 
सर्वस्यापि सद्गतिर्हि भवती मामेवमाहुर्जनाः ।
लज्जापादकमीदृशं जननि नः किं कुर्महे पाहि मा-
 
मित्येवं पवनस्य ते पदनतौ वाचो जयन्त्याकुलाः ॥ ६५ ॥
 
शङ्खोला सिगलोज्ज्वले समकरे पद्मेन कुन्दस्मिते
पादाग्राहतकच्छपे मुखमहापद्म मुकुन्दाश्रिते ।
इत्यस्मन्निधिगात्रि नीलनयने चर्चात्मिके पाहि मा-
मित्यापादनतिः शिवे विजयते सख्युः कुबेरस्य ते ॥ ६६ ॥
 
[म]नामेषु भवत्पदाम्बुजनखच्छायां जटासङ्गिनीं
गङ्गेत्यालिजना वदन्ति वितथं मा भून्मुधा कोपिनी ।
दृष्टिर्मय्युपनीयतां परुषमप्येकं वचो दीयता-
 
मीशानस्य भवानि ते पदनतावित्थं जयन्त्यर्थना: ॥ ६७ ॥
नाभीतोऽभवमादितस्तव बलात्पश्चादभीतोऽस्म्यहं
त्र्यक्षेण त्रिमुखीकृतोऽपि चतुरास्योऽहं तवैव स्तवैः ।
त्वं विश्वात्मतयोपजन्य न पुनः स्रष्टारमाख्याहि मा -
मित्थं देवि जयन्ति ते पदनतौ वाणीपतेः प्रार्थना: ॥ ६८ ॥
 
आशीर स्लि मुखे विलम्बयति मां भूयोऽपि चाशीस्पृहा
भोगाः सन्ति सहस्रधा पुनरहं भोगान् कथं प्रार्थये ।
 
शेषोऽहं स्पृहयाम्यशेषसुखमित्येतच्च हासास्पदं
 
नाथे चिन्तय सर्वमित्यहिपतेस्त्वत्पादपातो जयेत् ॥ ६९ ॥