Stotrarnava /747
This page has not been fully proofread.
श्रीपाद सप्ततिः
सीमन्तप्रकरे सुरेन्द्रसुदृशां सिन्दूररेखात्मना
माणिक्यद्युतिसंज्ञयैव मकुटीकोटीषु दैत्यगुहाम् ।
शम्भोर्मूर्ध्नि जटाघटारुणरुचिव्याजेन पादप्रभै-
वैका ते परिणाममेति करुणामूर्ते गिरीन्द्रात्मजे ॥ ५४ ॥
नो केशः परमाश्रयः सुमनसां पादाब्जरेणुश्च ते
नो मन्दं रसितं परं स्मितरुचिर्मञ्जीरयोश्च द्वयी ।
नो बाहुः कलहं समेत्य जयति त्वद्यानलीलाप्यसौ
नो शुम्भत्तरलाक्षमाननमिदं पादाम्बुजं चाम्बिके ॥ ५५ ॥
नाथे तावकवाह सिंहचलितास्त्वत्पादमूले नता
नूनं बभ्रमुरभ्रमुप्रियमुखा दिक्कुम्भिवीराश्चिरम् ।
नो चेदेष कथं तदुन्नतशिर रिसन्दूरसन्दोहजो
रागस्ते चरणाम्बुजे परिणमन्नद्यापि विद्योतते ॥ ५६ ॥
त्वत्पादोऽयमजाश्रितश्च रुचिरस्पर्शान्वितो योगिना-
मन्तःस्थाकृतिरूष्मभाक् च महिषप्रध्वंसनप्रक्रमे ।
एवं खल्वखिलाक्षरात्मकममुं शैलेन्द्रकन्ये कथं
भाषन्ते नतवर्गबन्धुमपवर्गालम्बनं वा जनाः ॥ ५७ ॥
उन्मीलन्नखमण्डलीहिमकणः शोणप्रभागैरिकं
बिभ्राणः परिशोभमानकटको भूयो वनैकाश्रयः ।
गायत्सिद्धवधूनिषेविततलः पादस्त्वदीयः शिवे
राजत्येष हिमाद्रिपादवदिदं युक्तं हिमाद्रेः सुते ॥ ५८ ॥
दिक्पालैर्दशभिः पृथक् पृथगयं त्वत्पादयोरर्पितो
दृश्यो भक्त्यनुराग एव दशधा शोणाङ्गुलिश्रीमिषात् ।
पादाभ्यामपि तान् प्रति प्रकटिता नूनं प्रसादाङ्कुरा
दृश्यन्ते पदकान्तिपक्तिदशक व्याजेन शैलात्मजे ॥ ५९ ॥
मेघानां कुलिशस्य चाप्रतिहतं धाराः क्रमन्तां चिरं
नो दृश्यो मददानवारिविभवो नाकस्य नागस्य च ।
पुत्रोऽयं मम सैनिकाश्च दधतां नित्यं जयन्तः सुखं
: त्वत्पादाम्बुजपातिनः सुरपतेरित्थं जयन्त्यर्थना: ॥ ६० ॥
आज्यासक्तकरैर्द्विजन्मभिरहं हूयेय नो दानवै:
स्वाहारोचितमस्तु पार्श्वमनिश तादृक् च हव्यं लभे ।
रक्षावानिति भूतिमानिति च मे शब्दप्रसिद्धा शिवे
1. नोऽपेक्ष्योऽहमिति त्वदङ्घ्रिनमने जीयासुरमेर्गिरः ॥ ६१ ॥