Proofing

2026-04-03 16:54:20 by ambuda-bot

This page has not been fully proofread.

देवीस्तोत्रेषु
 
मञ्जीरकणितैः क्षिपन्निव मुहुः श्रीनन्नखांशुद्रमैः
दैत्येन्द्रं प्रहसन्निवारुणरुचा रूष्यन्निवास्त्रैर्भृशम् ।
धीरायां त्वयि निर्विकार मनसि त्वत्पाद एव स्फुटं
पुष्णन् वैरिविकारमेष महिषध्वंसी परित्रायताम् ॥ ४६ ॥
क्षिप्रं देवि शिरस्पदेन महिषं पिष्ट्वा ततोऽधस्पदं
दित्सन्त्यां त्वयि कण्ठभञ्जनभिया कण्ठीरवे विद्रुते ।
मेदिन्यामपि भीतिकम्पिततनौ प्रेमत्वराशालिना
शर्वेणैव निजाङ्कसीम्नि निहितं पादद्वयं ते जयेत् ॥ ४७ ॥
पूर्व देवि पदाम्बुजेन महिषप्रध्वंसिनाभ्यासतः
पश्चात्कुत्सितशुम्भ दैत्यविजयोऽप्येवं कृतः किं त्वया ।
नो चेद्धन्ति कथं कुसुम्भविजयी पादाग्रदेशोऽयमि-
त्यालापे गिरिशस्य तद्विजयते मन्दस्मितं देवि ते ॥ ४८ ॥
बिभ्राणेन मनोज्ञयावकरसं मञ्जुध्वनिं नूपुरं
 
श्लेषालङ्कृतिशालिना नखमणीजातप्रसादश्रिया ।
एकेनैव पदेन देवि महिषध्वंसे महीयस्तर -
 
श्लोकोऽयं रचितस्त्वयेति विबुधाः संश्लाघनां कुर्वते ॥ ४९ ॥
 
त्वं शम्भोर्महिषी भवस्यगसुते तेनोपहासाय ते
दैत्योऽयं महिषीभवन्नुपगतः सोऽयं कथं क्षम्यते ।
 
इत्थं नूपुरनिस्वनैरिव वदन् पादस्त्वदीयो रुषा
 
शस्त्रप्रग्रहणात् पुरैव महिषं निघ्नन् परित्रायताम् ॥ ५० ॥
देव्या पङ्कशयोद्यतोऽपि महिषच्छद्मा महान् कण्टकः
पादेनाहत इत्युदूहसितं सख्या समावेदिते ।
सद्यः कण्टकशालिना करतलेनासाद्य पादाम्बुजं
गृह्णन्नार्तिविनोदनाय गिरिशो जीयात्प्रियस्ते शिवे ॥ ५१ ॥
त्वत्पादाम्बुजपल्लवैरगसुते देवि स्वयं पञ्चभिः
 
पञ्चत्वं गमितो महासुर इति स्वात्मानुरूपं कृतम् ।
 
एतैरेव नतो जनस्त्रिदशतां नीतो महेशः पुनः
 
लक्षत्वं गमितः प्रसूनधनुषो विस्मापनं तत् द्वयम् ॥ ५२ ॥
 
ब्राह्मं माघवनं च वाहनमहो मन्दैर्गतैर्निन्दितं
 
धावल्येन नखत्विषां विहसितो वाहोऽपि माहेश्वरः ।
 
इत्थं वाहनवैरितां भजति ते पादस्ततो मन्महे
 
कात्यायन्यमुना न्यघानि महिषः कार्तान्तवाहभ्रमात् ॥ ५३ ॥