Proofing

2026-04-03 16:54:20 by ambuda-bot

This page has not been fully proofread.

श्रीपाद सप्ततिः
 
नत्वैव प्रथमं त्वदङ्घ्रिकमलं तौ पुष्पवन्तावुभौ
 
त्रैलोक्यं महसाभिभूय चरतो व्योमान्तरप्रान्तरे ।
नाथे तौ कथमन्यथा परिगलल्लाक्षारसक्षालितौ
 
६९९
 
वीक्षेतेदृशशोणबिम्बमुदयारम्भे [वीक्ष्येते भृशशोणविंबसहितौ कल्ये ] प्रियंभावुकौ॥
त्रैलोक्यं वशयन्ति पापपटलीमुच्चारयन्त्युच्चकैः
 
विद्वेषं जनयन्त्यधर्मविषये प्रस्कन्दयन्त्यापदम् ।
आकर्षन्त्यभिवाञ्छितानि महिषस्वर्वैरिणो मारणा-
 
च्चित्रं त्वत्पद विन्दुचूर्णनिवहाः षट्कर्मणां साधकाः ॥ ३९ ॥
किं कल्पद्रुमपञ्चकं प्रणमतामाकाङ्क्षितापादने
 
किं पञ्चायुधबाणपञ्चकमिदं मारारिसंमोहने ।
सूक्ष्मा किञ्चन पञ्चभूतवपुषो विश्वस्य किं कारणं
त्वत्पादाङ्गुलिपञ्चकात्मकमिदं किं भाति शम्भोः प्रिये ॥ ४० ॥
डोलाकेलिषु दूरदूरगमने प्रेङ्खोलनाविभ्रमे
 
मेदिन्यामनिपातितं जयति ते नाथे पदाम्भोरुहम् ।
भक्त्या सन्नमतां त्वदाननगलद्गानामृतं मूर्छया
 
भूपुन्ने [पृष्ठे ]चिरशायिनां दिविषदा माघट्टनात् साध्वसात् ॥ ४१ ॥
मञ्जीरप्रसरन्मसार सुषमारूपा कलिन्दात्मजा
 
स्वच्छच्छायनखांशुसञ्चयमयी गङ्गा च सङ्गामुका ।
 
शोणः पादरुचां चयश्च मिलितो येन त्वदग्रे ततो
 
मज्जन्ती वनिपन्ति [मज्जन्तो निपतन्ति ] तत्र मुनयः सर्वे विशिष्टाङ्गने ॥
 
मञ्जीरार्पितशक्रनीलशकल श्रीचञ्चलीकाञ्चितं
 
रजद्रेणुविभूषितं परमहंसालीभिरा सेवितम् ।
 
त्वत्पादाग्रसरोजमगुलिदलच्छायाभिराभासुरं
 
विष्वग्रोचिनखांशुजालपयसि स्वच्छे समुच्छोभते ॥ ४३ ॥
 
मञ्जीरस्वनमञ्जुविष्किररवे तत्सङ्गिनीलोत्पल-
 
च्छायारूपतमोलवे नखमिषादक्षीणताराङ्गणे ।
 
सन्ध्यारागनिभस्वकान्तिपटले त्वत्पादमूलात्मक-
 
प्रत्यूषोपगमे हि देवि लभते लोकः प्रबोधोदयम् ॥ ४४ ॥
 
विद्यामुक्तिरमावधूषु नितरां कामातुरा मानवा-
स्तप्तास्त्वन्नखकान्तिचन्दनरसैरालिप्य गात्रं निजम् ।
त्वत्पादाब्जरुचिप्रवालनिचिते भूमीतले शेरते
 
नित्यं देवि भवत्कृपाप्रियसखीविश्वासतः केवलम् ॥ ४५ ॥