Stotrarnava /743
This page has not been fully proofread.
श्रीपाद सप्ततिः
किं ब्रूमः कुटिलात्मकोऽपि कबरीभारस्त्वदीयः शिवे
केलीविश्लथितं तनोति यदयं त्वत्पादसंस्पर्शनम् ।
तद्भूयः सुमनोगणादृतगुणरत्वन्मौलिसलाल्यतां
धत्ते चित्रमसौ त्वदङ्घ्रिभजनात् किं केन नो लभ्यते ॥ २२ ॥
रागद्वेषमुखा हि विभ्रमभरं नश्यन्ति [नो यान्ति ] विश्वेश्वरि
त्वत्सङ्गादिति मुक्तिदेशनिलये मिथ्या जनैः कथ्यते ।
उद्यद्वेषमुदारविभ्रमधरं गात्रं दधत्या त्वया
रागो विधियतेऽधिकं चरणयोः शोणाम्बुजच्छाययोः ॥ २३ ॥
देवि त्वत्पदसत्परागमनिशं मौलौ समाबिभ्रतां
साधूनामपरागतैव भवतीत्याश्चर्यमास्तामिदम् ।
पादस्ते नखरप्रभावलसितो जागर्ति सोऽयं पुनः
चित्रं नाम खरप्रभावलसितो दुष्टासुरं पिष्टवान् ॥ २४ ॥
द्वित्वेन स्थितयोस्त्वदीयपदयोर्द्वैतं निरस्य स्फुटं
कैवल्यप्रतिपादने कुशलता जातेति कोऽयं क्रमः ।
किं वा युक्तिभिरत्र मुक्तिकरता व्यक्तैव ते पादयोः
६९७
मुक्ता एव हि विस्फुरन्ति विमलास्तत्त्वं हि नोऽमी नखाः ॥ २५ ॥
पादाग्रं तव कामदं सुरलता शाखाप्रमाचक्ष्महे
जाता यत्र हि बालपल्लवरुचिः स्वैरेव रागोदयैः ।
उत्सर्पन्नखमण्डलीसुषमया पुष्पालिरुत्पादिता
सञ्जातलिरुचिश्व मञ्जुलतरैर्मञ्जीरशिञ्जारवैः ॥ २६ ॥
देवीयं तव सन्नतेशमकुटरवर्लोककल्लोलिनी-
कल्लोलाहतिभिर्विशेषविमला जीयान्नख श्रेणिका ।
यद्धावल्यमवाप्तुमात्तकुतुका स्तोयेऽन्ववस्यन्त्यमी
दीनाः फेनकणा मौक्तिकगणाः शङ्खाश्च शङ्कामहे ॥ २७ ॥
माने शम्भुशिरः प्रहारचरितं नैव त्वदिच्छाकृतं
जाने देवि पदाब्जयोस्तु पुरजिन्मूर्ध्ना विरोधादिदम् ।
एते पादनखांशुबद्धकलहाः शीतांशुमन्दाकिनी
भोगीन्द्राः किल शङ्करस्य शिरसा शङ्कां विना रक्षिताः ॥ २८ ॥
देवि त्वचरणोश्चलन्नखमणिश्रेणीषु लीनो नम-
न्नाभाति स्फटिकाचलरफुटतटीशायीव सायंनटः ।
हंसालीन वपुः स्वयं कमलभूः क्षीराब्धिशायीव च
श्रीभर्ता मघवापि नाकसरिति ध्यायन्निवालोक्यते ॥ २९ ॥