Proofing

2026-04-03 16:54:20 by ambuda-bot

This page has not been fully proofread.

६९६
 
देवीस्तोत्रेषु
 
दृष्ट्वा रात्रिषु चन्द्रपादजनितां पाथोरुहाणां व्यथां
देवि त्वं करुणाकुलेव कुरुषे तद्वैरनिर्यातनम् ।
मानानम्रमहेशमौलिवलभीवासस्य शीतत्विषो
 
नित्यं पङ्कजपादपातजनिता बाधा यदाधीयते ॥ १४ ॥
सम्भ्रान्तिस्तव देवि सा बिजयते मानावनम्रे हरे
त्वत्पादाम्बुजविप्रहारमुदिते मन्दं समुत्थायिनि ।
लाक्षारागरसारुणे निपतितं गङ्गापयः शीकरं
 
दृष्ट्रा शोणितशङ्कया तरलिता कान्तं यदालम्बथाः ॥ १५ ॥
सा पादद्वितयाहतिर्जयति ते यस्यां गिरीन्द्रात्मजे
प्राचीनेन्दुयुते नखेन्दुदशके मौलिस्थलीसङ्गते ।
स्वस्यैकादशमूर्तितासमुचितामेकादशैवोडुपा-
 
नाबिभ्राण इवाबभौ स भगवानेकोऽपि रुद्रः स्वयम् ॥ १६ ॥
किं वैरिञ्चकरोटिकोटिनिहतं किं वा फणिग्रामणी-
निश्वासाहतिवेपितं विदमिति प्रेमासंल्लापिना ।
मानस्योपशमे करेण शनकैरावृत्तता [वर्तितं ] शम्भुना
भूयश्चुम्बितमम्बुजद्युतिपदं ध्यायामि माये तव ॥ १७ ॥
पूर्व जह्नुसुता सकृन्मुररिपुश्रीपादसंक्षालना-
 
पुण्यादीदृशवैभवा समभवद्गोविन्दवन्द्ये शिवे ।
सेयं सम्प्रति शम्भुमौलिनिलया मानप्रसङ्गानतौ
 
नित्यं त्वञ्चरणावसेचनभुवा पुण्येन कीदृग्भवेत् ॥ १८ ॥
 
पूर्वं व्याकरणप्रपञ्चनविधौ लब्ध्वाप्यनेकं पदं
 
किं नो तृप्तिमगाद्गाधिपसुते शेषः फणिग्रामणीः ।
 
आलीनः शशिमौलिमूर्धनि चिरं प्रेमप्रकोपानतौ
 
लब्धुं ते पदमेकमेव कुतुकी नित्यं यतो वर्तते ॥ १९ ॥
तिष्ठन्त्यां प्रणयप्रकोपवशतो बाष्पाकुलाक्ष्यां त्वयि
श्रीकण्ठे नखदर्पणप्रतिफलद्रूपे पुरोवर्तिनि ।
 
पादाग्रे पतितोऽयमित्यभिहिते सख्या तवालोकन
लोलं पादतले विभाति सहसा साकोपमालीमुखे ॥ २० ॥
कान्तालोकनलज्जया विनमिते कान्ते मुखाम्भोरुहे
यासौ भूतलपातुका नयनयोः शोभा तवाभासते ।
सा तावत्तरुणारुणाम्बुजयुगभ्रान्त्या त्वदङ्घ्रिद्वय-
प्रान्ते भाति मरन्दपानकुतुकभ्रान्तेव भृङ्गावळी ॥ २१ ॥