Proofing

2026-04-03 16:54:19 by ambuda-bot

This page has not been fully proofread.

श्रीपाद सप्ततिः
 
आरुण्यं यदिदं त्वदीयपदयोराभाति तत् केचन
प्राहुस्तुङ्गनितम्ब भारभरणक्लान्त्या किलोपागतम् ।
अन्ये माहिषमूर्धवेधगलितं रक्तद्रवं मन्वते
 
मन्येऽहं तु नतेषु सान्द्रमनुरागोद्गारमेवानयोः ॥ ६ ॥
प्राहुः पद्मसमाश्रयं शतधृतिं त्वत्पादपद्माश्रया-
दन्तस्त्वत्पदपद्मवीक्षणवशात् कृष्णोऽपि पद्मेक्षणः ।
यत्पद्माचनमामनन्ति सुधियो दारिद्यविद्रावणं
मुक्तिक्षेत्रगते भवानि तदपि त्वत्पादपद्मार्चनम् ॥ ७ ॥
पादं ते सरसीरुहं[स्वय]मिदं यत् सेवते पद्मभूः
नूनं तस्य निवासपङ्कजवन श्रीलङ्घनाशङ्कया ।
गोविन्दोऽपि च वारिराशिदुहितुर्वासाब्जबाधाभिया
स्वस्यैवाकरोद्गृहीतकमलचाणाभिलाषेण वा ॥ ८ ॥
 
सेवन्ते कुलसंपदे नखमयाः शीतांशवस्त्वत्पदं
तत्पाको ननु वीक्ष्यते हि नितरामन्येषु शीतांशुषु ।
एको बालक एव मौलिमयितो यातो ललाटात्मता-
मन्यो निर्मलगण्डमण्डलदशामन्यौ तु धन्यौ गतौ ॥ ९ ॥
घोरं पादसहस्रकं प्रकटयन्नाशासु भासां पतिः
ध्वान्तं नो पुनरान्तरं शमयितुं शक्नोति शैलात्मजे ।
त्वत्पादद्वितयेन कोमलतरेणानेन चेतः स्पृशा
 
जन्तूनां बहिरन्तरन्धतमसं कृन्तस्यनन्तं शिवे ॥ १० ॥
सूर्येन्द्राग्निसमीरणादिसकलस्वर्वासिनामुन्मदः
 
सर्वाण्येव पदानि यो मथितवान् दुर्वारशौर्येषुणा ।
तं घोरं महिषासुरं निजपदेनैकेन संमृद्नती
 
यत्त्वं प्रत्यकृथास्ततः किमपरं त्वद्वैभवं ब्रूमहे ॥ ११ ॥
 
एकं वामतयैव दक्षिणतयैवान्यत्पदं देहिनां
 
६९५
 
ख्यातं मुक्ति पुराधि (पान्विनि) [वासिनि ] शिवे चित्रं त्वयि त्वीदृशम् ।
 
आत्रेषु जनेष्वभीष्टकरणे पादावुभौ दक्षिणौ
 
चान तु कृतागसि स्मरहरे वामाक्षि वामावुभौ ॥ १२ ॥
 
आनम्रस्य पुरद्रहः शिरसि ते पादाब्जपातरिशवे
 
जीयाद्येन बभूव पङ्कजवती मौलिस्रवन्ती क्षणम् ।
 
किञ्चोदञ्चित बालपल्लववती जाता जटावल्लरी
 
लाक्षापातवशेन सान्ध्यसुषमां सान्द्रा च चान्द्री कला ॥ १३ ॥
 
!!