Proofing

2026-05-10 03:06:08 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६९४
 
देवीस्तोत्रेषु
 
</ignore>
<verse>
कृतान्मे सुशीले तनुस्वान्तवाग्भिः
 

समस्तापचारान् ममाम् क्षमस्व ।

वनाद्रीश्वरि त्वं पयस्सिन्धुकन्ये
 

सरोजाक्षि पद्मे प्रसन्नाब्जवक्त्रे ॥ १८ ॥
</verse>
<verse>
न माता पिता वा विना त्वां सुशीले

न नाथः प्रियो वा विना सुन्दरेशम् ।

कलानाथवक्त्रे कटाक्षैस्ततस्त्वं
 

सुधासिन्धुकन्ये रमे रक्ष मां त्वम् ॥ १९ ॥
</verse>
<verse>
श्रियै सुन्दरराजस्य महिष्यै नित्यमङ्गलम् ।

माणिक्यभूषणोद्दीप्रतन्वङ्ग्यै जयमङ्गलम् ॥ २० ॥
 
</verse>
<trailer text="26_END">
॥ इति श्रीवानाद्रिनाथदयितास्तोत्रं सम्पूर्णम् ॥
 
</trailer>
<title text="27_START">
२७ ॥ अथ श्रीपाद सप्ततिः ॥
 
</title>
<verse>
यत्संवाहनलोभिनः शशिकलाचूडस्य हस्ताम्बुज-

स्पर्शेनापि च लोहितायति मुहुस्त्वत्पादपङ्केरुहम् ।

तेनैवोद्धत कासरासुरशिरश्शृङ्गाग्रसञ्चूर्णन-
 

प्राचण्ड्यं तदनुष्ठितं किल तथा मुक्तिस्थलस्थे शिवे ॥ १ ॥
</verse>
<verse>
त्वत्पादं निजमस्तके घटयितुं के के न लोके जनाः

किं किं नारयन्ति दुश्चरतपश्चर्या सपर्यादिकम् ।

मन्ये धन्यतमं तु देवि महिषं वैरस्थयैव त्वया

यन्मूर्ध्नि स्वयमेव पातकहरं पादाम्बुजं पातितम् ॥ २ ॥
</verse>
<verse>
त्वत्पादाम्बुजमर्पितं क्व नु शिवे किन्तु त्रयीमस्त के
 

नित्यं तत्त्वविचारदत्तमनसां चित्ताम्बुजायेषु वा ।

किं वा तत्प्रणय प्रकोपविनमन्मारारिमौलिस्थले
 

किं प्रोत्खण्डितघोरसैरिभमहादैत्येन्द्रमूर्धान्तरे ॥ ३ ॥
</verse>
<verse>
त्वत्पादाञ्चलरूपकल्पलतिका बालप्रवालद्वयं
 

ये तावत् कलयन्ति जातु शिरसा नत्म्रेण कम्रोज्ज्वलम् ।

तेषामेव हि देवि नन्दनवनक्रीडासु लभ्यं पुनः

स्वर्मल्लीतरुणप्रवालभरणं सेवानुरूपं फलम् ॥ ४॥
 
</verse>
<verse>
धावल्यं परिलाल्यते पुररिपोरङ्गेन तुङ्गश्रिया
 

किञ्च श्यामलिमापि कोमलतरे भात्येव गात्रे हरेः ।

तत्ताद्यदृक्पदवीं ममापि जनयेत्यस्तोकसेवारसा-
 

दारुण्यं तव लीयते चरणयोः कारुण्यमूर्ते शिवे ॥ ५ ॥
 
</verse>
</page>