Stotrarnava /740
This page has not been fully proofread.
६९४
देवीस्तोत्रेषु
कृतान्मे सुशीले तनुस्वान्तवाग्भिः
समस्तापचारान् ममाम्व क्षमस्व ।
वनाद्रीश्वरि त्वं पयसिन्धुकन्ये
सरोजाक्षि पद्मे प्रसन्नाब्जवक्त्रे ॥ १८ ॥
न माता पिता वा विना त्वां सुशीले
न नाथः प्रियो वा विना सुन्दरेशम् ।
कलानाथवक्त्रे कटाक्षैस्ततस्त्वं
सुधासिन्धुकन्ये रमे रक्ष मां त्वम् ॥ १९ ॥
श्रियै सुन्दरराजस्य महिष्यै नित्यमङ्गलम् ।
माणिक्यभूषणोद्दीप्रतन्वङ्गयै जयमङ्गलम् ॥ २० ॥
॥ इति श्रीवानाद्रिनाथदयितास्तोत्रं सम्पूर्णम् ॥
२७ ॥ अथ श्रीपाद सप्ततिः ॥
यत्संवाहनलोभिनः शशिकलाचूडस्य हस्ताम्बुज-
स्पर्शेनापि च लोहितायति मुहुस्त्वत्पादपङ्केरुहम् ।
तेनैवोद्धत कासरासुरशिरशृङ्गाग्रसचूर्णन-
प्रचण्ड्यं तदनुष्ठितं किल तथा मुक्तिस्थलस्थे शिवे ॥ १ ॥
त्वत्पादं निजमस्तके घटयितुं के के न लोके जनाः
किं किं नारयन्ति दुश्चरतपश्चर्या सपर्यादिकम् ।
मन्ये धन्यतमं तु देवि महिषं वैरस्थयैव त्वया
यन्मूर्ध्नि स्वयमेव पातकहरं पादाम्बुजं पातितम् ॥ २ ॥
त्वत्पादाम्बुजमर्पितं क्व नु शिवे किन्तु त्रयीमस्त के
नित्यं तत्त्वविचारदत्तमनसां चित्ताम्बुजायेषु वा ।
किं वा तत्प्रणय प्रकोपविनमन्मारारिमौलिस्थले
किं प्रोत्खण्डितघोरसैरिभमहादैत्येन्द्रमूर्धान्तरे ॥ ३ ॥
त्वत्पादाञ्चलरूपकल्पलतिका बालप्रवालद्वयं
ये तावत् कलयन्ति जातु शिरसा नत्रेण कम्रोज्ज्वलम् ।
तेषामेव हि देवि नन्दनवनक्रीडासु लभ्यं पुनः
स्वर्मलीतरुणप्रवालभरणं सेवानुरूपं फलम् ॥ ४॥
धावल्यं परिलाल्यते पुररिपोरङ्गेन तुङ्गश्रिया
किञ्च श्यामलिमापि कोमलतरे भात्येव गात्रे हरेः ।
तत्ताद्यपदवीं ममापि जनयेत्यस्तोकसेवारसा-
दारुण्यं तव लीयते चरणयोः कारुण्यमूर्ते शिवे ॥ ५ ॥