Stotrarnava /739
This page has not been fully proofread.
j
श्रीवानाद्रिनाथदयितास्तोत्रम्
सौन्दर्यवल्लि कमले सकलैकमातः
सर्वाङ्गसुन्दरमनोहरदिव्यरूपे ।
पद्मे मनोज्ञवदने सुभगे सुशीले
त्वत्पादपङ्कजयुगं शरणं गतोऽस्मि ॥ १० ॥
वितर वितर भद्रं सम्पदं भक्तिरूपा-
मिह च मम परत्र श्रीपतौ भाष्यकारे ।
वरवरमुनिवर्ये त्वत्पदाम्भोजयुग्मे
मम तु जलधिकन्ये निश्चलां लोकमातः ॥। ११ ॥
कलशजलधिकन्ये लोकमातः सुशीले
स्मितविलसितवक्त्रे कल्पवल्लि श्रितानाम् ।
दिवि भुवि वनशैलक्ष्मापतेर्वल्लभे श्रीः
मम तु तव पदाब्जे निश्चला भक्तिरस्तु ॥ १२ ॥
दिवि भुवि मम पद्मे सम्पदं भक्तिरूपां
वितर तव पदाब्जे सुन्दर श्रीपदाब्जे ।
शठरिपुपदपद्मे भाष्यकारे यतीन्द्रे
वरवरमुनिवर्ये लक्ष्मि कल्याणशीले ॥ १३ ॥
कल्याणशीले रमणीयगात्रे
लावण्य सौन्दर्यनिधे मनोज्ञे ।
कल्याणदे कल्पलते श्रितानां
पद्मे प्रयच्छ प्रियमब्धिकन्ये ॥ १४ ॥
प्रियमिह मम पद्मे संप्रयच्छ प्रयच्छ
तव तु चरणपद्मे संस्मरामि स्मरामि ।
गतिरिह मम नास्ति त्वत्पदाम्भोजयुग्मा-
दशरणमतिदीनं पाहि मां सिन्धुकन्ये ॥ १५ ॥
शरणमिह परत्र त्वत्पदाम्भोजयुग्मं
मम वनगिरिराजः पादकैङ्कर्यलक्ष्म्याः ।
सपदि किल ततस्त्वं लक्ष्मि पद्मायताक्षि
सकलभुवनमातः पाहि मां सिन्धुकन्ये ॥ १६ ॥
नमो लोकमातो न माता विना त्वां
रमे सिन्धुकन्ये सरोजायताक्षि ।
ततस्त्वं सुशीले प्रसीद प्रसीद
प्रियं विष्णुकान्ते प्रयच्छ प्रयच्छ ॥ १७ ॥
६९३
श्रीवानाद्रिनाथदयितास्तोत्रम्
सौन्दर्यवल्लि कमले सकलैकमातः
सर्वाङ्गसुन्दरमनोहरदिव्यरूपे ।
पद्मे मनोज्ञवदने सुभगे सुशीले
त्वत्पादपङ्कजयुगं शरणं गतोऽस्मि ॥ १० ॥
वितर वितर भद्रं सम्पदं भक्तिरूपा-
मिह च मम परत्र श्रीपतौ भाष्यकारे ।
वरवरमुनिवर्ये त्वत्पदाम्भोजयुग्मे
मम तु जलधिकन्ये निश्चलां लोकमातः ॥। ११ ॥
कलशजलधिकन्ये लोकमातः सुशीले
स्मितविलसितवक्त्रे कल्पवल्लि श्रितानाम् ।
दिवि भुवि वनशैलक्ष्मापतेर्वल्लभे श्रीः
मम तु तव पदाब्जे निश्चला भक्तिरस्तु ॥ १२ ॥
दिवि भुवि मम पद्मे सम्पदं भक्तिरूपां
वितर तव पदाब्जे सुन्दर श्रीपदाब्जे ।
शठरिपुपदपद्मे भाष्यकारे यतीन्द्रे
वरवरमुनिवर्ये लक्ष्मि कल्याणशीले ॥ १३ ॥
कल्याणशीले रमणीयगात्रे
लावण्य सौन्दर्यनिधे मनोज्ञे ।
कल्याणदे कल्पलते श्रितानां
पद्मे प्रयच्छ प्रियमब्धिकन्ये ॥ १४ ॥
प्रियमिह मम पद्मे संप्रयच्छ प्रयच्छ
तव तु चरणपद्मे संस्मरामि स्मरामि ।
गतिरिह मम नास्ति त्वत्पदाम्भोजयुग्मा-
दशरणमतिदीनं पाहि मां सिन्धुकन्ये ॥ १५ ॥
शरणमिह परत्र त्वत्पदाम्भोजयुग्मं
मम वनगिरिराजः पादकैङ्कर्यलक्ष्म्याः ।
सपदि किल ततस्त्वं लक्ष्मि पद्मायताक्षि
सकलभुवनमातः पाहि मां सिन्धुकन्ये ॥ १६ ॥
नमो लोकमातो न माता विना त्वां
रमे सिन्धुकन्ये सरोजायताक्षि ।
ततस्त्वं सुशीले प्रसीद प्रसीद
प्रियं विष्णुकान्ते प्रयच्छ प्रयच्छ ॥ १७ ॥
६९३