Proofing

2026-05-10 05:26:00 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>श्रीसरस्वतीस्तोत्रम् ६८९</ignore>
<verse>ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः ।
सारस्वतो जनः पाठात् स स्यादिष्टार्थलाभवान् ॥ १० ॥</verse>
<verse>पक्षद्वये च यो भक्त्या त्रयोदश्येकविंशतिम् ।
अविच्छिन्नं पठेद्धीमान् ध्यात्वा देवीं सरस्वतीम् ॥ ११ ॥</verse>
<verse>सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः ।
वान्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशयः ॥ १२ ॥</verse>
<p text="24_END" n="trailer">॥ इति श्रीनारदनन्दिकेश्वरसंवादे ब्रह्मपुराणोक्तं ब्रह्मप्रोक्तं
श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ॥</p>
<title text="25_START">२५. ॥ अथ श्रीसरस्वतीदशश्लोकीस्तोत्रम् ॥</title>
<verse>ऋषय ऊचुः---
कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।
महासरस्वती येन तुष्टा भवति तद्वद ॥ १ ॥</verse>
<verse>आश्वलायन उवाच---
शृण्वन्तु ऋषयः सर्वे गुह्याद्गुह्यतमं महत् ।
दशश्लोकीस्तुतिमिमां वदामि ध्यानपूर्वकम् ॥ २ ॥</verse>
<verse>अङ्कुशं चाक्षसूत्रं च पाशं पुस्तं च धारिणीम् ।
मुक्ताहारैः समायुक्तां देवीं ध्यायेच्चतुर्भुजाम् ॥ ३॥</verse>
<verse>सितेन दर्पणाभेन वक्त्रेण परिभूषिताम् ।
सुस्तनीं वेदिमध्यां तां चन्द्रार्धकृतशेखराम् ॥ ४॥</verse>
<verse>जटाकलापसंयुक्तां पूर्णचन्द्रनिभाननाम् ।
त्रिलोचनीं महादेवी वर्णनूपुरधारिणीम् ॥ ५ ॥</verse>
<verse>कटकस्वर्णरत्नाढ्यमहावलयभूषिताम् ।
कम्बुकण्ठीं सुताम्रोष्ठीं सर्वाभरणभूषिताम् ॥ ६ ॥</verse>
<verse>केयूरैर्मेखलाद्यैश्च द्योतयन्तीं जगत्त्रयम् ।
शब्दब्रह्मारणिं ध्यायेद्ध्यानकामः समाहितः ॥ ७ ॥</verse>
<verse>वक्ष्ये सारस्वतं स्तोत्रं वाक्प्रवृत्तिकरं शुभम् ।
लक्ष्मीविवर्धनं चैव विवादे विजयप्रदम् ॥ ८ ॥</verse>
<verse>परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् ।
प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ॥ ९ ॥</verse>
<verse>या वेदान्तोक्ततत्त्वैकस्वरूपा परमार्थतः ।
नामरूपात्मिका व्यक्ता सा मां पातु सरस्वती ॥ १० ॥</verse>
<ignore>44</ignore>
</page>