Stotrarnava /735
This page has not been fully proofread.
f
श्रीसरस्वतीस्तोत्रम्
ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः ।
सारस्वतो जनः पाठात् स स्यादिष्टार्थलाभवान् ॥ १० ॥
पक्षद्वये च यो भक्त्या त्रयोदश्येकविंशतिम् ।
अविच्छिन्नं पठेद्धीमान् ध्यात्वा देवीं सरस्वतीम् ॥ ११ ॥
सर्वपापविनिर्मुक्तः सुभगो लोकविश्रुतः ।
वान्छितं फलमाप्नोति लोकेऽस्मिन्नात्र संशयः ॥ १२ ॥
॥ इति श्रीनारदनन्दिकेश्वरसंवादे ब्रह्मपुराणोक्तं ब्रह्मप्रोक्तं
श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ॥
२५. ॥ अथ श्री सरस्वतीदशश्लोकीस्तोत्रम् ॥
ऋषय ऊचुः-.
कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।
महासरस्वती येन तुष्टा भवति तद्वद् ॥ १ ॥
आश्वलायन उवाच -
शृण्वन्तु ऋषयः सर्वे गुह्याद्गुह्यतमं महत् ।
दशश्लोकी स्तुतिमिमां वदामि ध्यानपूर्वकम् ॥ २ ॥
अंकुशं चाक्षसूत्रं च पाशं पुस्तं च धारिणीम् ।
मुक्ताहारैः समायुक्तां देवीं ध्यायेच्चतुर्भुजाम् ॥ ३॥
सितेन दर्पणाभेन वक्त्रेण परिभूषिताम् ।
सुस्तनीं वेदिमध्यां तां चन्द्रार्धकृतशेखराम् ॥ ४॥
जटाकलापसंयुक्तां पूर्णचन्द्रनिभाननाम् ।
त्रिलोचनीं महादेवी वर्णनूपुरधारिणीम् ॥ ५ ॥
कटकरवर्णरत्नाढ्यमहावलयभूषिताम् ।
कम्बुकण्ठीं सुताम्रोष्ठी सर्वाभरणभूषिताम् ॥ ६ ॥
केयूरैर्मेखलाद्यैश्च द्योतयन्तीं जगत्त्रयम् ।
शब्दब्रह्मारणिं ध्यायेद्ध्यानकामः समाहितः ॥ ७ ॥
वक्ष्ये सारस्वतं स्तोत्रं वाक्प्रवृत्तिकरं शुभम् ।
लक्ष्मीविवर्धनं चैव विवादे विजयप्रदम् ॥ ८ ॥
परब्रह्मात्मिकां देवीं भुक्तिमुक्तिफलप्रदाम् ।
प्रणम्य स्तौमि तामेव ज्ञानशक्तिं सरस्वतीम् ॥ ९ ॥
या वेदान्तोक्ततत्त्वैकस्वरूपा परमार्थतः ।
नामरूपात्मिका व्यक्ता सा मां पातु सरस्वती ॥ १० ॥
44
६८९
1