Proofing

2026-04-03 16:54:18 by ambuda-bot

This page has not been fully proofread.

६८८
 
देवीस्तोत्रे पु
 
ह्रीं ह्रीं ह्रा हृद्यवीजे शशिरुचिकमलाकल्पविस्पष्टशोभे
भव्ये भव्यानुकूले कुमतिवनदद्दे विश्ववन्द्याङ्घ्रिपद्मे ।
पोपविष्टे प्रणतजनमनोमोद संपादयित्रि
 
प्रोत्फुल्लज्ञानकूटे हरिहरदयिते देवि संसारसारे ॥ २ ॥
ऐं ऐं ऐंजाप्यतुष्टे हिमरुचिमकुटे वल्लकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् ।
विद्ये वेदान्तगीते श्रुतिपरिपठिते मुक्ति मुक्तिमार्गे
मार्गातीतस्वरूपे मम भव वरदे शारदे शुभ्रवर्णे ॥ ३ ॥
धी धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये
नित्ये नित्ये निमित्त मुनिगणनमिते नूतने वै पुराणे ।
पुण्ये पुण्यप्रवाहे हरिहरनमिते वर्णतत्त्वे सुवर्ण
 
मातर्मन्त्रार्थतत्त्वे मतिमति मति माधवप्रीतिदाने ॥ ४ ॥
क्लीं क्लीं क्लीं सुस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते
सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणीस्तम्भविद्ये ।
मोहे मुग्धप्रबोधे मम कृरु विमतिध्वान्तविध्वंसमीड्ये
गीर्गीभारती त्वं कविवृपरसनासिद्धिदे सिद्धिसाध्ये ॥ ५ ॥
सौं सौं सौं शक्तिवीजे कमलभ व मुखाम्भोजभूतस्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
निस्थूले नैव सूक्ष्मे [नविदितविभवे ] नाप्यविज्ञाततत्त्वे
 
विश्वे विश्वान्तराले सुरगणनमिते निष्कले नित्यशुद्धे ॥ ६ ॥
स्तौमि त्वां त्वां च वन्दे मम खलु रसनां मा कदाचित् त्यजेस्त्वं
मा मे बुद्धिर्विरुद्धा भवतु जनमनो पातु मां देवि पापम् ।
 
मा मे दुःखं कदाचित् कचिदपि विषये पुस्तके नाकुलत्वं
शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदापि ॥ ७ ॥
इत्येतैः श्लोकमुख्यैः प्रतिदिनमुपसि स्तौति यो भक्तिनम्रो
वाण्या वाचस्पतेरप्यविदितविभवो वाक्पटुर्मृष्टपङ्कः ।
सस्यादिष्टार्थलाभात् सुतमित्र सततं पाति तं सा च देवी
 
सौभाग्यं तस्य लोके प्रसरति कविता विघ्नमस्तं प्रयाति ॥ ८ ॥
 
निर्विघ्नं तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोध:
 
कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् ।
दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो
 
वाग्देव्याः सत्प्रसादात् त्रिजगति विजयी जायते सत्सभासु ॥ ९ ॥