Proofing

2026-04-22 05:15:20 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<footnottitle text="23_START">२३. ॥ अथ श्रीसरस्वतीस्तोत्रम् ॥</footnottitle>
<verse>कुन्दालिद्युतिमन्दहाससुमुखीराकेन्दुबिम्बानना
मल्लीतल्लजमालतीसुमनसां सौभाग्यपाटच्चरी ।
फुल्लेन्दीवरबृन्दषट्पदतमःसन्दोहसन्देहकृ-
द्वेणीका विधिसुन्दरी मम भवेदानन्दसन्दोहिनी ॥ १ ॥</verse>
<verse>यत्पादाम्बुजसेवयैव ससुरो लोकः समर्त्यासुरो
वागौन्नत्यमगाहत श्रुतिवचोवीथीषु या गीयते ।
या श्वेताम्बुजमध्यवासरसिका या नम्ररक्षामणिः
धातुः कापि कुटुम्बिनी वितरतात् सा निर्वृतिं नोऽतुलाम् ॥ २ ॥</verse>
<verse>कस्तूरीघनसारगन्धलहरीसंवासितोरःस्थला
संवीता स्फुटकाशपुष्पसदृशक्षौमांशुकेनानिशम् ।
पुस्तं हस्तचतुष्टये जपवटीं शस्तां शुकीं वल्लकीं
बिभ्राणा गृहिणी विधातुरवतान्नः सेवया तोषिता ॥ ३ ॥</verse>
<verse>शुभ्रं दभ्रवलग्नमभ्रतनु तेऽभ्रप्रमोदप्रदं
विभ्रान्ते भ्रमन्धपस्य सततं तैस्तैर्निजैर्विभ्रमैः ।
शब्दब्रह्ममये जगत्यनितर । पेक्षा धिकारक्रिय
किञ्चित्कुञ्चितकेशमद्य जयति स्रष्टुर्भुविष्ठं महः ॥ ४ ॥</verse>
<trailer text="23_END">॥ इति श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ॥</trailer>
<footnote text="24_START">२४. ॥ अथ श्रीसरस्वतीस्तोत्रमहामन्त्रः ॥</footnote>
<p>अस्य श्रीसरस्वतीस्तोत्रमहामन्त्रस्य मार्कण्डेय ऋषिः । स्रग्धरानुष्टुप्
छन्दांसि । श्रीसरस्वती देवता । अथ शुभतिथौ मम सकलविद्यात्मकप्रतिबन्ध-
कजाड्यनिरासद्वारा श्रीसरस्वतीप्रीत्यर्थं एकविंशतित्रयोदशीषु मौनव्रतादिनि-
यमपूर्वकं सरस्वतीस्तोत्रपाठमविच्छेदमेकविंशतिवारं करिष्ये ।
वाक्सिद्ध्यर्थजपे विनियोगः ॥</p>
<verse>शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ १ ॥</verse>
</page>