Proofing

2026-04-22 05:12:52 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<footnote text="23_START">
२३. ॥ अथ श्रीसरस्वतीस्तोत्रम् ॥
</footnote>
<verse>
कुन्दालिद्युतिमन्दहास सुमुखी राकेन्दुबिम्बानना

मल्लीतल्लजमालतीसुमनसां सौभाग्यपाटञ्च्चरी ।

फुल्लेन्दीवरवृबृन्दषट्पदतमः सन्दोह सन्देहकृ-
 

द्वेणीका विधिसुन्दरी मम भवेदानन्दसन्दोहिनी ॥ १ ॥
</verse>
<verse>
यत्पादाम्बुज सेवयैव ससुरो लोकः समर्त्यासुरो

वागौन्नत्यमगाहत श्रुतिवचोवीथीषु या गीयते ।

या श्वेताम्बुजमध्यवासरसिका या नम्ररक्षामणि:
 
णिः
धातुः कापि कुटुम्बिनी वितरतात् सा निर्वृतिं नोऽतुलाम् ॥ २ ॥
</verse>
<verse>
कस्तूरीघनसारगन्धलहरी संवासितोरः स्थला
 

संवीता स्फुटकाशपुष्पसदृशक्षौमांशुकेना निशम् ।
 

पुस्तं हस्तचतुष्टये जपवटीटीं शस्तां शुकीं वल्लकीं
 

बिभ्राणा गृहिणी विधातुरवतान्नः सेवया तोषिता ॥ ३ ॥
 
</verse>
<verse>
शुभ्रं दभ्रवलग्नमभ्रतनु तेऽभ्रप्रमोदप्रदं
 

विभ्रान्ते भ्रमन्धपस्य सततं तैस्तैर्निजैर्विभ्रमैः ।
 

शब्दब्रह्ममये जगत्यनितर । पेक्षा धिकारक्रिय
 

किञ्चित्कुञ्चितकेशमद्य जयति स्रष्टुर्भुविष्ठं महः ॥ ४ ॥
 
</verse>
<trailer text="23_END">
॥ इति श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ॥
 
</trailer>
<footnote text="24_START">
२४. ॥ अथ श्रीसरस्वतीस्तोत्रमहामन्त्रः ॥
 
</footnote>
<p>
अस्य श्रीसरस्वतीस्तोत्रमहामन्त्रस्य मार्कण्डेय ऋषिः । स्रग्धरानुष्टुप्

छन्दांसि । श्रीसरस्वती देवता । अथ शुभतिथौ मम सकलविद्यात्मक प्रतिबन्ध -

कजाड्य निरासद्वारा श्रीसरस्वतीप्रीत्यर्थं एकविंशतित्रयोदशीषु मौनव्रतादिनि-

यमपूर्वकं सरस्वतीस्तोत्रपाठ विच्छेदमेकविंशतिवारं करिष्ये
 

वाक्सिद्ध्यर्थजपे विनियोगः ॥
 
</p>
<verse>
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
 

वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।

हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
 

वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ १ ॥
 
1
 
</verse>
</page>