Stotrarnava /733
This page has not been fully proofread.
२३. ॥ अथ श्रीसरस्वतीस्तोत्रम् ॥
कुन्दालिद्युतिमन्दहास सुमुखी राकेन्दुबिम्बानना
मल्लीतल्लजमालतीसुमनसां सौभाग्यपाटञ्चरी ।
फुल्लेन्दीवरवृन्दषट्पदतमः सन्दोह सन्देहकृ-
द्वेणीका विधिसुन्दरी मम भवेदानन्दसन्दोहिनी ॥ १ ॥
यत्पादाम्बुज सेवयैव ससुरो लोकः समर्त्यासुरो
वागौन्नत्यमगाहत श्रुतिवचोवीथीषु या गीयते ।
या श्वेताम्बुजमध्यवासरसिका या नम्ररक्षामणि:
धातुः कापि कुटुम्बिनी वितरतात् सा निर्वृतिं नोऽतुलाम् ॥ २ ॥
कस्तूरीघनसारगन्धलहरी संवासितोरः स्थला
संवीता स्फुटकाशपुष्पसदृशक्षौमांशुकेना निशम् ।
पुस्तं हस्तचतुष्टये जपवटी शस्तां शुकीं वल्लकीं
बिभ्राणा गृहिणी विधातुरवतान्नः सेवया तोषिता ॥ ३ ॥
शुभ्रं दभ्रवलग्नमभ्रतनु तेऽभ्रप्रमोदप्रदं
विभ्रान्ते भ्रमन्धपस्य सततं तैस्तैर्निजैर्विभ्रमैः ।
शब्दब्रह्ममये जगत्यनितर । पेक्षा धिकारक्रिय
किञ्चित्कुञ्चितकेशमद्य जयति स्रष्टुर्भुविष्ठं महः ॥ ४ ॥
॥ इति श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ॥
२४. ॥ अथ श्रीसरस्वतीस्तोत्रमहामन्त्रः ॥
अस्य श्रीसरस्वतीस्तोत्रमहामन्त्रस्य मार्कण्डेय ऋषिः । स्रग्धरानुष्टुप्
छन्दांसि । श्रीसरस्वती देवता । अथ शुभतिथौ मम सकलविद्यात्मक प्रतिबन्ध -
कजाड्य निरासद्वारा श्रीसरस्वतीप्रीत्यर्थं एकविंशतित्रयोदशीषु मौनव्रतादिनि-
यमपूर्वकं सरस्वतीस्तोत्रपाठ विच्छेदमेकविंशतिवारं करिष्ये
वासिद्ध्यर्थजपे विनियोगः ॥
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ १ ॥
1