Stotrarnava /732
This page has not been fully proofread.
२२. ॥ अथ श्रीसरस्वतीप्रार्थनास्तोत्रम् ॥
शुभानि विदधातु नः किमपि पाणिपद्मस्थली -
विभासिशुकपोतकप्रियवचोभिरानन्दितम् ।
सुधाकर कला समुल्लसितशेखरं पद्मभू-
वशीकरणचातुरीकलितलीलमाद्यं महः ॥ १ ॥
सदा हृदि विभासतां विलसदैन्दवश्रीसख-
प्रभानिकरनिर्धुता खिलजगत्तमः संहति ।
सदातनवचस्तुतातुलितवैभवं दुर्दशा-
निशातनयारसाञ्चितविलोकनं दैवतम् ॥ २ ॥
कलक्कणितनूपुरं कलितदीनरक्षाकरं
शशाङ्ककृतशेखरं शमितभक्तदैन्योत्करम् ।
कदा दुरितदुर्लभं कमलभूमनोवल्लभं
महोऽहमवलोकये महितसाहित लब्धये ॥ ३ ॥
रसज्ञहृदयङ्गमस्फुरदसीमभावोदयां
तदीयरसभावनासमुचितैर्गुणैर्बन्धुराम् ।
निरर्गलविनिर्गलत्सुरधुनीतरङ्गक्रमां
विधातृवरवर्णनी वितरताद्वचोवैखरीम् ॥ ४ ॥
विदूरय ममापदं वितर भद्रमव्याहतं
विधेहि विमलं यश विरचय प्रसादं मयि ।
सुधारस सहोदरैः शिशिरयान्तरं मामकं
दयारसतरङ्गितैर्भुवनमातरालोकनैः ॥ ५ ॥
त्वामेव यामि शरणं जगदम्ब वाणि
शीतांशुखण्ड परिशोभित मौलिभागे ।
वाचालनूपुरसमञ्चितपादपद्मे
वाचामधीश्वर विधेहि मयि प्रसादम् ॥ ६ ॥
भाष्यकारेण रचिता जीयद्वाग्देवतानुतिः ।
श्रीकालहस्तीशगुरुवर्यपादाब्जसेवया [सेविना ] ॥ ७ ॥
॥ इति श्रीसरस्वती प्रार्थनास्तोत्रं सम्पूर्णम् ॥
शुभानि विदधातु नः किमपि पाणिपद्मस्थली -
विभासिशुकपोतकप्रियवचोभिरानन्दितम् ।
सुधाकर कला समुल्लसितशेखरं पद्मभू-
वशीकरणचातुरीकलितलीलमाद्यं महः ॥ १ ॥
सदा हृदि विभासतां विलसदैन्दवश्रीसख-
प्रभानिकरनिर्धुता खिलजगत्तमः संहति ।
सदातनवचस्तुतातुलितवैभवं दुर्दशा-
निशातनयारसाञ्चितविलोकनं दैवतम् ॥ २ ॥
कलक्कणितनूपुरं कलितदीनरक्षाकरं
शशाङ्ककृतशेखरं शमितभक्तदैन्योत्करम् ।
कदा दुरितदुर्लभं कमलभूमनोवल्लभं
महोऽहमवलोकये महितसाहित लब्धये ॥ ३ ॥
रसज्ञहृदयङ्गमस्फुरदसीमभावोदयां
तदीयरसभावनासमुचितैर्गुणैर्बन्धुराम् ।
निरर्गलविनिर्गलत्सुरधुनीतरङ्गक्रमां
विधातृवरवर्णनी वितरताद्वचोवैखरीम् ॥ ४ ॥
विदूरय ममापदं वितर भद्रमव्याहतं
विधेहि विमलं यश विरचय प्रसादं मयि ।
सुधारस सहोदरैः शिशिरयान्तरं मामकं
दयारसतरङ्गितैर्भुवनमातरालोकनैः ॥ ५ ॥
त्वामेव यामि शरणं जगदम्ब वाणि
शीतांशुखण्ड परिशोभित मौलिभागे ।
वाचालनूपुरसमञ्चितपादपद्मे
वाचामधीश्वर विधेहि मयि प्रसादम् ॥ ६ ॥
भाष्यकारेण रचिता जीयद्वाग्देवतानुतिः ।
श्रीकालहस्तीशगुरुवर्यपादाब्जसेवया [सेविना ] ॥ ७ ॥
॥ इति श्रीसरस्वती प्रार्थनास्तोत्रं सम्पूर्णम् ॥