Proofing

2026-05-10 02:35:38 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<footnote>
२१. ॥ अथ श्रीसरस्वतीस्तोत्रम् सिद्धसारस्वतम् ॥
 
</footnote>
<verse>
बृहस्पतिरुवाच—
 

सरस्वति नमस्यामि चेतनाहृदि संस्थिताम् ।

कण्ठस्थां पद्मयो नेस्त्वां ह्रीं ह्रीङ्कारप्रियां तथा ॥ १ ॥
</verse>
<verse>
मतिदां वरदां चैव सर्वकामफलप्रदाम ।
म् ।
केशवस्य प्रियां भार्यां वीणाहस्तां वरप्रदाम् ॥ २ ॥
</verse>
<verse>
ह्रीं ह्रीं मन्त्रप्रियां हृद्यां कुमतिध्वंसकारिणीम् ।

स्वप्रकाशनिरालम्बामज्ञानतिमिरापहाम् ॥ ३ ॥
 
</verse>
<verse>
मोक्षप्रदां शुभां नित्यां शुभदां भुवनप्रियाम् ।

पद्मस्थितां कुण्डलिनीनीं शुक्लवस्त्रां मनोरमाम् ॥ ४॥
</verse>
<verse>
आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् ।

नित्यवासस्थितां देवीं वागीशेन महात्मना ॥ ५॥
</verse>
<verse>
आत्मानं दर्शयामास शरदिन्दुसमप्रभा ।

वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ ६ ॥
 
</verse>
<verse n="7a">
बृहस्पतिरुवाच—
 

प्रसन्ना भव हे देवि दिव्यज्ञानं प्रयच्छ मे ॥
 
</verse>
<verse n="7b">
सरस्वत्युवाच-
 
--
वर्तते निर्मलं ज्ञानं कुमतिध्वंसकारकम् ।

स्तोत्रेणानेन यो भक्त्या मां स्तुवन्ति सदा नरः ॥ ७ ॥
</verse>
<verse n="8">
त्रिसन्ध्यं प्रयतो भूत्वा यः स्तुतिं पठते तथा ।

तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ ८ ॥
</verse>
<verse>
प्रथमं भारती चैव द्वितीयं तु सरस्वती ।

तृतीयं शारदा देवी चतुर्थं कंसमर्दनी ॥ ९ ॥
 
</verse>
<verse>
पञ्चमं तु जगन्माता षष्ठं चैव तु पार्वती ।

सप्तमं चैव वाराही ह्यष्टमं ब्रह्मचारिणी ॥ १० ॥
 
</verse>
<verse>
नवमं चैव कामाक्षी दशमं ब्रह्मपुत्रिका ।

एकादशं तु लक्ष्मीस्तु द्वादशं सुरसुन्दरी ॥। ११ ॥
</verse>
<verse>
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।

तस्य सारस्वतं चैव षण्मासादेव सिध्यति ॥ १२ ॥
 
</verse>
</page>