Proofing

2026-04-03 16:54:17 by ambuda-bot

This page has not been fully proofread.

२१. ॥ अथ श्रीसरस्वतीस्तोत्रम् सिद्धसारस्वतम् ॥
 
बृहस्पतिरुवाच—
 
सरस्वति नमस्यामि चेतनाहृदि संस्थिताम् ।
कण्ठस्थां पद्मयो नेस्त्वां ह्रीं ह्रीङ्कारप्रियां तथा ॥ १ ॥
मतिदां वरदां चैव सर्वकामफलप्रदाम ।
केशवस्य प्रियां भार्यां वीणाहस्तां वरप्रदाम् ॥ २ ॥
ह्रीं ह्रीं मन्त्रप्रियां हृद्यां कुमतिध्वंसकारिणीम् ।
स्वप्रकाशनिरालम्बामज्ञानतिमिरापहाम् ॥ ३ ॥
 
मोक्षप्रदां शुभां नित्यां शुभदां भुवनप्रियाम् ।
पद्मस्थितां कुण्डलिनी शुक्लवस्त्रां मनोरमाम् ॥ ४॥
आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् ।
नित्यवासस्थितां देवीं वागीशेन महात्मना ॥ ५॥
आत्मानं दर्शयामास शरदिन्दुसमप्रभा ।
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ॥ ६ ॥
 
बृहस्पतिरुवाच—
 
प्रसन्ना भव हे देवि दिव्यज्ञानं प्रयच्छ मे ॥
 
सरस्वत्युवाच-
 
वर्तते निर्मलं ज्ञानं कुमतिध्वंसकारकम् ।
स्तोत्रेणानेन यो भक्त्या मां स्तुवन्ति सदा नरः ॥ ७ ॥
त्रिसन्ध्यं प्रयतो भूत्वा यः स्तुतिं पठते तथा ।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ ८ ॥
प्रथमं भारती चैव द्वितीयं तु सरस्वती ।
तृतीयं शारदा देवी चतुर्थ कंसमर्दनी ॥ ९ ॥
 
पञ्चमं तु जगन्माता षष्ठं चैव तु पार्वती ।
सप्तमं चैव वाराही ष्टमं ब्रह्मचारिणी ॥ १० ॥
 
नवमं चैव कामाक्षी दशमं ब्रह्मपुत्रिका ।
एकादशं तु लक्ष्मीस्तु द्वादश सुरसुन्दरी ॥। ११ ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
तस्य सारस्वतं चैव षण्मासादेव सिध्यति ॥ १२ ॥