Proofing

2026-05-10 04:48:17 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीरङ्गनायिकास्तोत्रम्
 
६८३</ignore>
<verse>
तव रङ्गिणश्च चरणाम्बुजे विना

गतिरस्ति नो च मम रङ्गनायकि ।

इह मां कुरुष्व तव किङ्करं सदा
 

जननी समस्त जगतां दयानिधे ॥ १५ ॥
</verse>
<verse>
विधिशङ्करेन्द्रमुखनिर्जरैः सदा
 

वनितायुतैश्च कमले समर्चिते ।

अखिलेष्टदे सकललोकवल्लभे
 

सततं कुरुष्व तव किङ्करं तु माम् ॥ १६ ॥
 
</verse>
<verse>
जननी मम त्वमसि सिन्धुकन्यके
 

शरणं त्वमेव कमले दयानिधे ।
 

इह निस्तरेयमहमब्जलोचने
 

कृपया तवैव भवघोरसागरम् ॥ १७ ॥
 
</verse>
<verse>
मातः श्रीः सिन्धुकन्ये कुवलयशफरीपद्मसौगन्धिकादि-

प्रस्पर्धिस्फारनेत्रे सरसिजवदने दिव्यलावण्यगात्रे ।

बिम्बश्रीविद्रुमाभाधररुचिलसिते दिव्यवक्षोजदीप्रे
 
६८३
 

<delete>
पद्मे </delete><add>[रक्ष]</add> श्रीरङ्गहर्म्याङ्गणकनकलते त्वत्कटाक्षैः शुभैर्माम् ॥ १८ ॥
</verse>
<verse>
मां रक्ष रङ्गिदयिते मधुरैः कटाक्षै-
 

राभोगतुङ्गरुचिरस्तनभासमाने ।
 

सर्वेश्वरस्तव सुदर्शन लोलदृष्टि-
 

स्त्वां वीक्षते तव पतिः सततं सुशीले ॥ १९ ॥
 
</verse>
<verse>
संमज्जति स्तनतटे तव रङ्गनाथो
 

व्यामुग्धवांस्त्वयि शुभे झषमुग्धनेत्रे ।
 

वश्यः सदा भवति ते कमले ततस्त्वं
 

मां रक्ष रङ्गिदयिते करुणाकटाक्षैः ॥ २० ॥
</verse>
<verse>
ईषत्प्रफुल्लकमलोत्पलकान्तनेत्रे
 

मुग्धस्मितप्रविलसद्वदनारविन्दे ।
 

श्रीरङ्गनायकि मनोहर दिव्यगात्रे
 

नित्यं प्रसीद मम वृत्तमचिन्तयित्वा ॥ २१ ॥
 
</verse>
<verse>
श्रीरङ्गराजसयुजे श्रियै कनकभूषणैः ।
 

माणिक्य भूषणैर्दीप्रतन्वङ्ग्यै जयमङ्गलम् ॥ २२ ॥
 
</verse>
<trailer text="20_END">
॥ इति श्रीरङ्गनायिकास्तोत्रं सम्पूर्णम् ॥
 
</trailer>
</page>