Stotrarnava /728
This page has been fully proofread once and needs a second look.
<page>
<ignore>६८२
देवीस्तोत्रेषु
</ignore>
<verse>कमले कमलारुणदिव्यमुखे
सुखदे जगतां खलु कल्पलते ।
अयि मामवलोकय सिन्धुसुते
कृपया तव केवलमब्जपदे ॥ ७ ॥
</verse>
<verse>पतितं भववारिधिमध्यगतं
सततं विमतं जनताभिमते ।
अयि मामवलोकय पद्मकरे
दयिते जगदीश्वर रङ्गपतेः ॥ ८ ॥
</verse>
<verse>पदयोः शरणागतमब्धिसुते
तव दीनमकिञ्चनमार्तियुतम् ।
अयि मामवलोकय रङ्गपते-
र्दयिते विधिशङ्करमुख्यपतेः ॥ ९ ॥
</verse>
<verse>अपि दुःसहपापशतैर्भरितं
जगतां जननि क्षमया कमले ।
परिपालय मां दयनीयमिमं
परिदीनहृदं तव रङ्गपतेः ॥ १० ॥
</verse>
<verse>युवयोरपि दुःसहपापशतै-
र्भुवनेश्वरि रङ्गपतेर्दयिते ।
अपि मां भरितं परिपालय ते
दयया शरणागतिकं पदयोः ॥ ११ ॥
</verse>
<verse>मातः प्रसीद कमले जगतां सुशीले
तापत्रयीजनितदुःखसहस्रसङ्घैः ।
पापैरनन्यगतिकं भरितं च दीनं
मां रक्ष दिव्यकृपया शरणागतं त्वाम् ॥ १२ ॥
</verse>
<verse>युष्मत्पदाम्बुजयुगं शरणं गतस्य
मातः प्रयच्छ वरदे जगतां प्रियं मे ।
श्रीरङ्गनायकि मनोहरदिव्यरूपे
पाहि प्रसीद कमले सुभगे सुशीले ॥ १३ ॥
</verse>
<verse>भवसिन्धुमग्नमरविन्दलोचने
प्रणतप्रसन्नमुखचन्द्रमण्डले ।
परिपालयाद्य दयनीय दुर्दश
शं
कृपया च मां च कमले दयानिधे ॥ १४ ॥
</verse>
</page>
<ignore>६८२
<verse>कमले कमलारुणदिव्यमुखे
सुखदे जगतां खलु कल्पलते ।
अयि मामवलोकय सिन्धुसुते
कृपया तव केवलमब्जपदे ॥ ७ ॥
<verse>पतितं भववारिधिमध्यगतं
सततं विमतं जनताभिमते ।
अयि मामवलोकय पद्मकरे
दयिते जगदीश्वर रङ्गपतेः ॥ ८ ॥
<verse>पदयोः शरणागतमब्धिसुते
तव दीनमकिञ्चनमार्तियुतम् ।
अयि मामवलोकय रङ्गपते-
र्दयिते विधिशङ्करमुख्यपतेः ॥ ९ ॥
<verse>अपि दुःसहपापशतैर्भरितं
जगतां जननि क्षमया कमले ।
परिपालय मां दयनीयमिमं
परिदीनहृदं तव रङ्गपतेः ॥ १० ॥
<verse>युवयोरपि दुःसहपापशतै-
र्भुवनेश्वरि रङ्गपतेर्दयिते ।
अपि मां भरितं परिपालय ते
दयया शरणागतिकं पदयोः ॥ ११ ॥
<verse>मातः प्रसीद कमले जगतां सुशीले
तापत्रयीजनितदुःखसहस्रसङ्घैः ।
पापैरनन्यगतिकं भरितं च दीनं
मां रक्ष दिव्यकृपया शरणागतं त्वाम् ॥ १२ ॥
<verse>युष्मत्पदाम्बुजयुगं शरणं गतस्य
मातः प्रयच्छ वरदे जगतां प्रियं मे ।
श्रीरङ्गनायकि मनोहरदिव्यरूपे
पाहि प्रसीद कमले सुभगे सुशीले ॥ १३ ॥
<verse>भवसिन्धुमग्नमरविन्दलोचने
प्रणतप्रसन्नमुखचन्द्रमण्डले ।
परिपालयाद्य दयनीय
कृपया च मां च कमले दयानिधे ॥ १४ ॥
</page>