Stotrarnava /728
This page has not been fully proofread.
६८२
देवीस्तोत्रेषु
कमले कमलारुणदिव्यमुखे
सुखदे जगतां खलु कल्पलते ।
अयि मामवलोकय सिन्धुसुते
कृपया तव केवलमब्जपदे ॥ ७ ॥
पतितं भववारिधिमध्यगतं
सततं विमतं जनताभिमते ।
अयि मामवलोकय पद्मकरे
दयिते जगदीश्वर रङ्गपतेः ॥ ८ ॥
पदयोः शरणागतमब्धिसुते
तव दीनमकिञ्चनमार्तियुतम् ।
अयि मामवलोकय रङ्गपते-
दयिते विधिशङ्करमुख्यपतेः ॥ ९ ॥
अपि दुःसहपापशतैर्भरितं
जगतां जननि क्षमया कमले ।
परिपालय मां दयनीयमिमं
परिदीनहृदं तव रङ्गपतेः ॥ १० ॥
युवयोरपि दुःसहपापशतै-
भुवनेश्वरि रङ्गपतेर्दयिते ।
अपि मां भरितं परिपालय ते
दयया शरणागतिकं पदयोः ॥ ११ ॥
मातः प्रसीद कमले जगतां सुशीले
तापत्रयीजनितदुःखसहस्रसङ्घैः ।
पापैरनन्यगतिकं भरितं च दीनं
मां रक्ष दिव्यकृपया शरणागतं त्वाम् ॥ १२ ॥
युष्मत्पदाम्बुजयुगं शरणं गतस्य
मातः प्रयच्छ वरदे जगतां प्रियं मे ।
श्रीरङ्गनायकि मनोहरदिव्यरूपे
पाहि प्रसीद कमले सुभगे सुशीले ॥ १३ ॥
भवसिन्धुमग्नमरविन्दलोचने
प्रणतप्रसन्नमुखचन्द्रमण्डले ।
परिपालयाद्य दयनीय दुर्दश
कृपया च मां च कमले दयानिधे ॥ १४ ॥
देवीस्तोत्रेषु
कमले कमलारुणदिव्यमुखे
सुखदे जगतां खलु कल्पलते ।
अयि मामवलोकय सिन्धुसुते
कृपया तव केवलमब्जपदे ॥ ७ ॥
पतितं भववारिधिमध्यगतं
सततं विमतं जनताभिमते ।
अयि मामवलोकय पद्मकरे
दयिते जगदीश्वर रङ्गपतेः ॥ ८ ॥
पदयोः शरणागतमब्धिसुते
तव दीनमकिञ्चनमार्तियुतम् ।
अयि मामवलोकय रङ्गपते-
दयिते विधिशङ्करमुख्यपतेः ॥ ९ ॥
अपि दुःसहपापशतैर्भरितं
जगतां जननि क्षमया कमले ।
परिपालय मां दयनीयमिमं
परिदीनहृदं तव रङ्गपतेः ॥ १० ॥
युवयोरपि दुःसहपापशतै-
भुवनेश्वरि रङ्गपतेर्दयिते ।
अपि मां भरितं परिपालय ते
दयया शरणागतिकं पदयोः ॥ ११ ॥
मातः प्रसीद कमले जगतां सुशीले
तापत्रयीजनितदुःखसहस्रसङ्घैः ।
पापैरनन्यगतिकं भरितं च दीनं
मां रक्ष दिव्यकृपया शरणागतं त्वाम् ॥ १२ ॥
युष्मत्पदाम्बुजयुगं शरणं गतस्य
मातः प्रयच्छ वरदे जगतां प्रियं मे ।
श्रीरङ्गनायकि मनोहरदिव्यरूपे
पाहि प्रसीद कमले सुभगे सुशीले ॥ १३ ॥
भवसिन्धुमग्नमरविन्दलोचने
प्रणतप्रसन्नमुखचन्द्रमण्डले ।
परिपालयाद्य दयनीय दुर्दश
कृपया च मां च कमले दयानिधे ॥ १४ ॥